श्रुतधारा
॥ श्री ॥

तत्त्वार्थसूत्र

उमास्वामी · संस्कृतम् · ३५७ पद्य · ~५४ मिनट

1-जीवाधिकार

सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥1॥
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥2॥
तन्निसर्गादधिगमाद्वा ॥3॥
जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥4॥
नामस्थापनाद्रव्यभाव तस्तन्न्यासः ॥5॥
प्रमाणनयैरधिगमः ॥6॥
निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥7॥
सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्‍च ॥8॥
मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥9॥
तत्प्रमाणे ॥10॥
आद्ये परोक्षम् ॥11॥
प्रत्यक्षमन्यत् ॥12॥
मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥13॥
तदिन्द्रयानिन्द्रिय निमित्तम् ॥14॥
अवग्रहेहावाय धारणाः ॥15॥
बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम्‌ ॥16॥
अर्थस्य ॥17॥
व्यञ्जनस्यावग्रहः ॥18॥
न चक्षुरनिन्द्रियाभ्याम् ॥19॥
श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम्‌ ॥20॥
भवप्रत्ययोऽवधिर्देवनारकाणाम् ॥21॥
क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥22॥
ऋजुविपुलमती मनःपर्ययः ॥23॥
विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥24॥
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥25॥
मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥26॥
रूपिष्ववधेः ॥27॥
तदनन्तभागे मनःपर्ययस्य ॥28॥
सर्वद्रव्यपर्यायेषु केवलस्य ॥29॥
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥30॥
मतिश्रुतावधयो विपर्ययश्‍च ॥31॥
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥32॥
नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥33॥

2-जीवाधिकार

औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥1॥
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥2॥
सम्यक्त्वचारित्रे ॥3॥
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥4॥
ज्ञानाज्ञानदर्शन लब्धयश्‍चतुस्त्रित्रि पञ्चभेदाः सम्यक्त्वचारित्र संयमासंयमाश्‍च ॥5॥
गतिकषायलिंग-मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्‍चतुश्‍चतुस्त्र्यैकैकैकैक-षड्भेदाः ॥6॥
जीवभव्याभव्यत्वानि च ॥7॥
उपयोगो लक्षणम् ॥8॥
स द्विविधोऽष्ट-चतुर्भेदः ॥9॥
संसारिणो मुक्ताश्‍च ॥10॥
समनस्काऽमनस्काः ॥11॥
संसारिणस्त्रसस्थावराः ॥12॥
पृथिव्यप्तेजो वायु-वनस्पतयः स्थावराः ॥13॥
द्वीन्द्रियादयस्त्रसाः ॥14॥
पंचेद्रियाणि ॥15॥
द्विविधानि ॥16॥
निर्वृत्त्युपकरणे द्रव्येन्द्रियम्‌ ॥17॥
लब्ध्युपयोगो भावेन्द्रियम् ॥18॥
स्पर्शन-रसन-घ्राण-चक्षुःश्रोत्राणि ॥19॥
स्पर्श-रस-गन्ध-वर्ण-शब्दास्तदर्थाः ॥20॥
श्रुतमनिन्द्रियस्य ॥21॥
वनस्पत्यन्तानामेकम् ॥22॥
कृमि-पिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि ॥23॥
संज्ञिनः समनस्काः ॥24॥
विग्रहगतौ कर्मयोगः ॥25॥
अनुश्रेणिः गतिः ॥26॥
अविग्रहा जीवस्य ॥27॥
विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥28॥
एकसमयाऽविग्रहा ॥29॥
एकं द्वौ त्रीन्वानाहारकः ॥30॥
सम्मूर्च्छन-गर्भोपपादा जन्म ॥31॥
सचित्तशीतसंवृताः सेतरा मिश्राश्‍चैकशस्तद्योनयः ॥32॥
जरायुजाण्डजपोतानां गर्भः ॥33॥
देवनारकाणामुपपादः ॥34॥
शेषाणां सम्मूर्च्छनं ॥35॥
औदारिक-वैक्रियिकाहारक-तैजस-कार्मणानि शरीराणि ॥36॥
परं परं सूक्ष्मम् ॥37॥
प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥38॥
अनन्तगुणे परे ॥39॥
अप्रतीघाते ॥40॥
अनादिसंबन्धे च ॥41॥
सर्वस्य ॥42॥
तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥43॥
निरुपभोगमन्त्यम् ॥44॥
गर्भसम्मूर्च्छनजमाद्यम्‌ ॥45॥
औपपादिकं वैक्रियिकम्‌ ॥46॥
लब्धिप्रत्ययं च॥47॥
तैजसमपि ॥48॥
शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥49॥
नारकसंमूर्च्छिनो नपुंसकानि ॥50॥
न देवाः ॥51॥
शेषास्त्रिवेदाः ॥52॥
औपपादिक चरमोत्तम-देहाऽसंख्येय-वर्षायुषोऽनपवर्त्यायुषः ॥53॥

3-जीवाधिकार

रत्न-शर्करा-बालुका-पंक-धूम-तमो-महातमः प्रभा भूमयो घनाम्बुवाताकाश प्रतिष्ठाः सप्ताऽधोऽधः॥1॥
तासु त्रिंशत्पंचविंशति पंचदशदश-त्रि-पंचोनैक-नरक-शतसहस्राणि पंच चैव यथाक्रमम्॥2॥
नारका नित्याऽशुभतर-लेश्या-परिणामदेह-वेदना-विक्रियाः॥3॥
परस्परोदीरित-दुःखाः॥4॥
संक्लिष्टासुरोदीरित-दुःखाश्‍च प्राक् चतुर्थ्याः॥5॥
तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः॥6॥
जम्बूद्वीप-लवणोदादयः शुभनामानो द्वीप-समुद्रा॥7॥
द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः॥8॥
तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः॥9॥
भरतहैमवत-हरि-विदेह-रम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि॥10॥
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषध-नील-रुक्मि-शिखरिणो वर्षधर-पर्वताः॥11॥
हेमार्जुन-तपनीय वैडूर्य-रजत हेममयाः॥12॥
मणि-विचित्र-पार्श्‍वा उपरि मूले च तुल्यविस्ताराः॥13॥
पद्ममहापद्मतिगिञ्छकेशरि महापुण्डरीकपुण्डरीका-हृदास्तेषामुपरि॥14॥
प्रथमो योजन-सहस्रायामस्तदर्द्धविष्कम्भो हृदः।॥15॥
दशयोजनावगाहः॥16॥
तन्मध्ये योजनं पुष्करम्॥17॥
तद् द्विगुण-द्विगुणा हृदाः पुष्कराणि च॥18॥
तन्निवासिन्यो देव्यः श्री-ह्री-धृति-कीर्ति-बुद्धि-लक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः ॥19॥
गंगासिन्धु रोहिद्रोहितास्या-हरिद्धरिकान्ता सीतासीतोदा-नारीनरकान्ता सुवर्णरूप्यकूला रक्तारक्तोदाः सरितस्तन्मध्यगाः ॥20॥
द्वयोर्द्वयोः पूर्वाः पूर्वगाः॥21॥
शेषास्त्वपरगाः॥22॥
चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः॥23॥
भरतः षड्विंशति-पंचयोजनशत-विस्तारः षट्चैकोनविंशतिभागा-योजनस्य ॥24॥
तद् द्विगुण द्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः॥25॥
उत्तरा दक्षिण-तुल्याः ॥26॥
भरतैरावतयोर्वृद्धिह्रासौ षट्‍समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम्‌ ॥27॥
ताभ्यामपरा भूमयोऽवस्थिताः॥28॥
एकद्वित्रिपल्योपम-स्थितयो हैमवतक हारिवर्षक दैवकुरुवकाः॥29॥
तथोत्तराः॥30॥
विदेहेषु संख्येयकालाः॥31॥
भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः॥32॥
द्विर्धातकीखण्डे॥33॥
पुष्करार्द्धे च॥34॥
प्राङ् मानुषोत्तरान्मनुष्याः॥35॥
आर्या म्लेच्छाश्‍च॥36॥
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः॥37॥
नृस्थितीपरावरे त्रिपल्योपमान्तर्मुहूर्ते॥38॥
तिर्यग्योनिजानां च॥39॥

4-जीवाधिकार

देवाश्चतुर्णिकाया: ॥1॥
आदितस्त्रिषु पीतान्तलेश्या: ॥2॥
दशाष्ट-पञ्च-द्वादश-विकल्पा कल्पोपपन्न पर्यन्ता: ॥3॥
इंद्र-सामानिक-त्रायस्त्रिंश-पारिषदात्मरक्ष-लोकपालानीक-प्रकीर्णकाभियोग्यकिल्विषिकाश्चैकश: ॥4॥
त्रायस्त्रिंश-लोकपाल-वर्ज्या व्यंतरज्योतिष्का: ॥5॥
पूर्वयोर्द्वीन्द्राः ॥6॥
काय-प्रवीचारा आ ऐशानात् ॥7॥
शेषा: स्पर्श-रूप-शब्द-मन: प्रवीचारा: ॥8॥
परेऽप्रवीचारा: ॥9॥
भवन-वासिनोऽसुरनाग-विद्युत्सुपर्णाग्निवातस्तनितोदधि-द्वीप-दिक्कुमारा: ॥10॥
व्यन्तरा: किन्नर-किम्पुरुष-महोरग-गन्धर्व-यक्ष-राक्षस-भूत-पिशाचा: ॥11॥
ज्योतिष्का: सूर्याचन्द्रमसौ ग्रह-नक्षत्र-प्रकीर्णक-तारकाश्च ॥12॥
मेरु-प्रदक्षिणा नित्यगतयो नृलोके ॥13॥
तत्कृत: काल विभाग: ॥14॥
बहिरवस्थिता: ॥15॥
वैमानिका: ॥16॥
कल्पोपपन्ना: कल्पातीताश्च ॥17॥
उपर्युपरि ॥18॥
सौधर्मेशान-सानत्कुमार-माहेन्द्र-ब्रह्म-ब्रह्मोत्तर-लान्तव-कापिष्ट-शुक्र-महाशुक्र-शतार-सहस्रारेष्वानतप्राणत-योरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजय-वैजयन्त जयन्तापराजितेषु सर्वार्थ-सिद्धौ च ॥19॥
स्थिति-प्रभाव-सुख-द्युति-लेश्याविशुद्धीन्द्रियावधि-विषय-तोऽधिका: ॥20॥
गति-शरीर-परिग्रहाभिमानतो हीना: ॥21॥
पीत-पद्म-शुक्ल-लेश्या द्वि-त्रि-शेषेषु ॥22॥
प्राग्ग्रैवेयकेभ्य: कल्पा: ॥23॥
ब्रह्म-लोकालया लौकान्तिका: ॥24॥
सारस्वतादित्य वह्न्यरुण-गर्दतोय-तुषिताव्या-बाधारिष्टाश्च ॥25॥
विजयादिषु द्वि-चरमा: ॥26॥
औपपादिक-मनुष्येभ्य: शेषास्तिर्यग्योनय: ॥27॥
स्थितिरसुर-नाग-सुपर्ण-द्वीपशेषाणां-सागरोपम-त्रिपल्योपमार्द्धहीन-मिता: ॥28॥
सौधर्मेशानयो: सागरोपमेऽधिके ॥29॥
सानत्कुमार-माहेन्द्रयो: सप्त ॥30॥
त्रिसप्त-नवैकादश-त्रयोदश-पञ्चदशभिरधिकानि तु ॥31॥
आरणाच्युता-दूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥32॥
अपरा पल्योपममधिकम् ॥33॥
परत: परत: पूर्वा पूर्वाऽनन्तरा ॥34॥
नारकाणां च द्वितीयादिषु ॥35॥
दश-वर्षसहस्राणि प्रथमायाम् ॥36॥
भवनेषु च ॥37॥
व्यन्तराणां च ॥38॥
परा पल्योपममधिकम् ॥39॥
ज्योतिष्काणां च ॥40॥
तदष्टभागोऽपरा ॥41॥
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥42॥

5-अजीवाधिकार

अजीव-काया-धर्माधर्माकाश-पुद्गला: ॥1॥
द्रव्याणि ॥2॥
जीवाश्च ॥3॥
नित्यावस्थितान्यरूपाणि ॥4॥
रूपिण: पुद्गला: ॥5॥
आ आकाशादेक-द्रव्याणि ॥6॥
निष्क्रियाणि च ॥7॥
असंख्येया: प्रदेशा धर्माधर्मैकजीवानाम् ॥8॥
आकाशस्यानन्ता: ॥9॥
संख्येयासंख्येयाश्च पुद्गलानाम् ॥10॥
नाणो: ॥11॥
लोकाकाशेऽवगाह: ॥12॥
धर्माधर्मयो: कृत्स्ने ॥13॥
एकप्रदेशादिषु भाज्य: पुद्गलानाम् ॥14॥
असंख्येय-भागादिषु जीवानाम् ॥15॥
प्रदेश-संहार-विसर्पाभ्यां प्रदीपवत् ॥16॥
गति-स्थित्युपग्रहौ धर्माधर्मयोरुपकार: ॥17॥
आकाशस्या-वगाह: ॥18॥
शरीरवाङ्मन:-प्राणापाना पुद्गलानाम् ॥19॥
सुख-दु:ख-जीवितमरणोपग्रहाश्च ॥20॥
परस्परोपग्रहो जीवानाम् ॥21॥
वर्तना-परिणाम-क्रिया-परत्वापरत्वे च कालस्य ॥22॥
स्पर्श-रस-गंध-वर्णवन्त: पुद्गला: ॥23॥
शब्द-बंध-सौक्ष्म्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च ॥24॥
अणव: स्कन्धाश्च ॥25॥
भेद-संघातेभ्य उत्पद्यन्ते ॥26॥
भेदादणु: ॥27॥
भेद-संघाताभ्यां चाक्षुष: ॥28॥
सद् द्रव्य-लक्षणम् ॥29॥
उत्पाद-व्यय-ध्रौव्य-युक्तं सत् ॥30॥
तद्भावाव्ययं नित्यम् ॥31॥
अर्पितानर्पितसिद्धे: ॥32॥
स्निग्ध-रूक्षत्वाद् बन्धः ॥33॥
न जघन्य-गुणानाम् ॥34॥
गुणसाम्ये सदृशानाम् ॥35॥
द्वयधिकादि गुणानां तु ॥36॥
बन्धेऽधिकौ पारिणामिकौ च ॥37॥
गुण-पर्ययवद् द्रव्यम् ॥38॥
कालश्च ॥39॥
सोऽनन्तसमय: ॥40॥
द्रव्याश्रया निर्गुणा गुणा: ॥41॥
तद्भाव: परिणाम: ॥42॥

6-आस्रवाधिकार

काय-वाङ्मन: कर्म-योग: ॥1॥
स आस्रव: ॥2॥
शुभ: पुण्यस्याशुभ: पापस्य ॥3॥
सकषायाकषाययो: साम्परायिकेर्यापथयो: ॥4॥
इन्द्रिय-कषायाव्रत-क्रिया: पंच-चतु:-पंच-पंचविंशति-संख्या: पूर्वस्य भेदा: ॥5॥
तीव्र-मंद-ज्ञाताज्ञात-भावाधिकरण-वीर्य-विशेषेभ्यस्तद्विशेष: ॥6॥
अधिकरणं जीवाजीवा: ॥7॥
आद्यं संरम्भ-समारम्भारम्भयोग कृत-कारितानुमत-कषाय-विशेषैस्त्रिस्त्रिस्त्रि-श्चतुश्चैकश: ॥8॥
निर्वर्तना-निक्षेप-संयोग-निसर्गा द्विचतुर्द्वि-त्रिभेदा: परम् ॥9॥
तत्प्रदोष-निह्नव-मात्सर्यान्तरायासादनोपघाता ज्ञान-दर्शनावरणयो: ॥10॥
दु:ख-शोक-तापाक्रन्दन-वध-परिदेवनान्यात्म-परोभय-स्थानान्यसद्वेद्यस्य ॥11॥
भूत-व्रत्यनुकम्पादान-सराग-संयमादि-योग: क्षांति: शौचमिति सद्वेद्यस्य ॥12॥
केवलि-श्रुत-संघ-धर्मदेवावर्णवादो दर्शनमोहस्य ॥13॥
कषायोदयात्तीव्र-परिणामश्चारित्र-मोहस्य ॥14॥
बह्वारम्भ-परिग्रहत्वं नारकस्यायुष: ॥15॥
माया तैर्यग्योनस्य ॥16॥
अल्पारम्भ परिग्रहत्वं मानुषस्य ॥17॥
स्वभाव-मार्दवं च ॥18॥
नि:शील-व्रतत्वं च सर्वेषाम् ॥19॥
सरागसंयम-संयमा-संयमाकामनिर्जराबालतपांसि दैवस्य ॥20॥
सम्यक्त्वं च ॥21॥
योगवक्रता विसंवादनं चाशुभस्य नाम्न: ॥22॥
तद्विपरीतं शुभस्य ॥23॥
दर्शनविशुद्धिर्विनयसम्पन्नता-शील-व्रतेष्वनतीचारोऽभीक्ष्ण-ज्ञानोपयोगसंवेगौ शक्तितस्त्याग-तपसी साधुसमाधिर्वैयावृत्य-करणमर्हदाचार्य-बहुश्रुत-प्रवचन-भक्तिरावश्यकापरिहाणिर्मार्ग-प्रभावना-प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥24॥
परात्म-निन्दा-प्रशंसे सदसद् गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥25॥
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥26॥
विघ्नकरणमन्तरायस्य ॥27॥

7-आस्रवाधिकार

हिंसाऽनृत-स्तेयाब्रह्म-परिग्रहेभ्यो विरतिर्व्रतम् ॥1॥
देश सर्वतोऽणु-महती ॥2॥
तत्स्थैर्यार्थं भावना: पञ्च-पञ्च ॥3॥
वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकित-पान-भोजनानि पञ्च ॥4॥
क्रोध-लोभ-भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीचि-भाषणं च पञ्च ॥5॥
शून्यागार-विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि-सधर्मावि-संवादा: पञ्च ॥6॥
स्त्रीरागकथा श्रवण-तन्मनोहरांग निरीक्षण पूर्व-रतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कारत्यागा: पञ्च ॥7॥
मनोज्ञामनोज्ञेन्द्रिय-विषय-राग-द्वेष वर्जनानि पञ्च ॥8॥
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥9॥
दु:खमेव वा ॥10॥
मैत्री-प्रमोद-कारुण्य-माध्यस्थानि च सत्त्व-गुणाधिक-क्लिश्यमानाविनयेषु ॥11॥
जगत्काय-स्वभावौ वा संवेगवैराग्यार्थम् ॥12॥
प्रमत्तयोगात्प्राण-व्यपरोपणं हिंसा ॥13॥
असदभिधानमनृतम् ॥14॥
अदत्तादानं स्तेयम् ॥15॥
मैथुनम-ब्रह्म ॥16॥
मूर्च्छा परिग्रह: ॥17॥
नि:शल्यो व्रती ॥18॥
अगार्यनगारश्च ॥19॥
अणुव्रतोऽगारी ॥20॥
दिग्देशानर्थदण्ड-विरति-सामायिक-प्रोषधोपवासोपभोग-परिभोग-परिमाणातिथि-संविभागव्रतसम्पन्नश्च ॥21॥
मारणान्तिकीं सल्लेखनां जोषिता ॥22॥
शंका-कांक्षाविचिकित्सान्यदृष्टि-प्रशंसा-संस्तवा: सम्यग्दृष्टेरती-चारा: ॥23॥
व्रत-शीलेषु पञ्च पञ्च यथाक्रमम् ॥24॥
बंधवध-च्छेदाति-भारारोपणान्नपान-निरोधा: ॥25॥
मिथ्योपदेश-रहोभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदा: ॥26॥
स्तेनप्रयोग-तदाहृतादानविरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपक-व्यवहारा: ॥27॥
परविवाह करणेत्वरिका-परिगृहीतापरिगृहीता-गमनानङ्गक्रीडा-कामतीव्राभिनिवेशा: ॥28॥
क्षेत्रवास्तु-हिरण्यसुवर्ण-धन-धान्य-दासीदास-कुप्य-प्रमाणातिक्रमा: ॥29॥
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धि-स्मृत्यंतराधानानि ॥30॥
आनयन-प्रेष्यप्रयोग-शब्दरूपानुपात-पुद्गलक्षेपा: ॥31॥
कन्दर्प-कौत्कुच्य-मौखर्यासमीक्ष्याधि-करणोपभोगपरिभोगानर्थक्यानि ॥32॥
योग दु:प्रणिधानानादर-स्मृत्यनु-पस्थानानि ॥33॥
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा-नादरस्मृत्यनुप-स्थानानि ॥34॥
सचित्त-संबंधसम्मिश्रा-भिषवदु:पक्वाहारा: ॥35॥
सचित्त-निक्षेपापिधानपरव्यपदेश-मात्सर्यकालातिक्रमा: ॥36॥
जीवित-मरणाशंसा-मित्रानुराग-सुखानुबंध-निदानानि ॥37॥
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥38॥
विधि-द्रव्य-दातृ-पात्र-विशेषात्तद्विशेष: ॥39॥

8-बंधाधिकार

मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा बन्धहेतव: ॥1॥
सकषायत्वाज्जीव: कर्मणो योग्यान् पुद्गलानादत्ते स बंध: ॥2॥
प्रकृति स्थित्यनुभव-प्रदेशास्तद्विधय: ॥3॥
आद्यो ज्ञान-दर्शनावरणवेदनीय-मोहनीयायुर्नाम-गोत्रान्तराया: ॥4॥
पञ्च-नव-द्वयष्टाविंशति-चतुर्-द्विचत्वारिंशद्-द्वि-पञ्च-भेदा-यथाक्रमम् ॥5॥
मतिश्रुतावधि-मन:पर्यय केवलानाम् ॥6॥
चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानगृद्धयश्च ॥7॥
सदसद्वेद्ये ॥8॥
दर्शनचारित्र-मोहनीयाकषाय-कषायवेदनीयाख्यास्त्रिद्वि-नव-षोडशभेदा: सम्यक्त्व-मिथ्यात्व-तदुभयान्यकषाय-कषायौ हास्यरत्यरति-शोक-भय-जुगुप्सा-स्त्री-पुन्नपुंसक-वेदा अनन्तानुबंध्य-प्रत्याख्यान-प्रत्याख्यान-संज्वलन-विकल्पाश्चैकश: क्रोध-मान-माया-लोभा: ॥9॥
नारकतैर्यग्योन-मानुष-दैवानि ॥10॥
गति-जाति-शरीराङ्गोपाङ्गनिर्माण-बंधन-संघात-संस्थान-संहनन-स्पर्श-रस-गंध-वर्णानुपूर्व्यागुरुलघूपघात-परघातातपोद्योतोच्छ्वास-विहायोगतय: प्रत्येक-शरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्ति-स्थिरादेय यश: कीर्ति-सेतराणि तीर्थकरत्वं च ॥11॥
उच्चैर्नीचैश्च ॥12॥
दान-लाभ-भोगोपभोग-वीर्याणाम् ॥13॥
आदितस्तिसृणा-मंतरायस्य च त्रिंशत्सागरोपमकोटीकोट्य: परा स्थिति: ॥14॥
सप्तति-र्मोहनीयस्य ॥15॥
विंशतिर्नाम-गोत्रयो: ॥116॥
त्रयस्त्रिंशत्सागरोपमाण्यायुष: ॥17॥
अपरा द्वादश मुहूर्ता वेदनीयस्य ॥18॥
नाम-गोत्रयोरष्टौ ॥19॥
शेषाणामन्तर्मुहूर्ता ॥20॥
विपाकोऽनुभव: ॥21॥
स यथानाम् ॥22॥
ततश्च निर्जरा ॥23॥
नाम-प्रत्यया: सर्वतो योग-विशेषात्-सूक्ष्मैकक्षेत्रावगाह-स्थिता: सर्वात्म-प्रदेशेष्वनन्तानन्त-प्रदेशा: ॥24॥
सद्वेद्यशुभायुर्नाम-गोत्राणि पुण्यम् ॥25॥
अतोऽन्यत्पापम् ॥26॥

9-संवर-निर्जराधिकार

आस्रव-निरोध: संवर: ॥1॥
स गुप्ति-समिति-धर्मानुप्रेक्षा-परीषहजय-चारित्रै: ॥2॥
तपसा निर्जरा च ॥3॥
सम्यग्योगनिग्रहो गुप्ति: ॥4॥
ईर्याभाषैषणा-दाननिक्षेपोत्सर्गा: समितय: ॥5॥
उत्तमक्षमा-मार्दवार्जव-शौच-सत्य-संयमतपस्त्यागाकिञ्चन्य-ब्रह्मचर्याणि धर्म: ॥6॥
अनित्याशरण-संसारैकत्वान्य-त्वाशुच्यास्रवसंवर-निर्जरा-लोक-बोधिदुर्लभ-धर्म-स्वाख्यातत्त्वानु-चिन्तन-मनुप्रेक्षा: ॥7॥
मार्गाच्यवन-निर्जरार्थं परिषोढव्या: परीषहा: ॥8॥
क्षुत्पिपासा-शीतोष्णदंशमशक-नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्याक्रोशवधयाचनालाभ-रोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाज्ञानादर्शनानि ॥9॥
सूक्ष्मसाम्पराय-छद्मस्थवीत-रागयोश्चतुर्दश ॥10॥
एकादश जिने ॥11॥
बादर-साम्पराये सर्वे ॥12॥
ज्ञानावरणे प्रज्ञाज्ञाने ॥13॥
दर्शन-मोहान्तराययोरदर्शनालाभौ ॥14॥
चारित्रमोहे नाग्न्यारति-स्त्री-निषद्या-क्रोश-याचना-सत्कारपुरस्कारा: ॥15॥
वेदनीये शेषा: ॥16॥
एकादयो भाज्या युगपदेक-स्मिन्नैकोनविंशते: ॥17॥
सामायिकच्छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यात-मितिचारित्रम् ॥18॥
अनशनावमौदर्य-वृत्तिपरिसंख्यान-रस-परित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तप: ॥19॥
प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् ॥20॥
नवचतुर्दश-पञ्च द्विभेदा यथाक्रमं प्राग्ध्यानात् ॥21॥
आलोचना-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तपश्छेदपरिहारो-पस्थापना: ॥22॥
ज्ञान-दर्शन-चारित्रोपचारा: ॥23॥
आचार्योपाध्याय-तपस्वि-शैक्ष्य-ग्लान-गण-कुल-संघ-साधु-मनोज्ञानाम् ॥24॥
वाचना-पृच्छनानुप्रेक्षाम्नाय-धर्मोपदेशा: ॥25॥
बाह्याभ्यन्तरोपध्यो: ॥26॥
उत्तम-संहननस्यैकाग्र-चिन्ता-निरोधो ध्यानमान्त-र्मुहूर्तात्॥27॥
आर्त्त-रौद्र-धर्म्य-शुक्लानि ॥28॥
परे मोक्षहेतू ॥29॥
आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृति-समन्वाहार: ॥30॥
विपरीतं मनोज्ञस्य ॥31॥
वेदनायाश्च ॥32॥
निदानं च ॥33॥
तदविरतदेशविरतप्रमत्तसंयतानां ॥34॥
हिंसानृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरत-देशविरतयो: ॥35॥
आज्ञापाय-विपाक-संस्थान-विचयाय धर्म्यम् ॥36॥
शुक्ले चाद्ये पूर्व-विद:॥37॥
परे केवलिन: ॥38॥
पृथक्त्वैकत्व-वितर्क-सूक्ष्मक्रिया-प्रतिपाति-व्युपरत-क्रिर्यानिवर्तीनि ॥39॥
त्र्येकयोग-काययोगायोगानाम् ॥40॥
एकाश्रये सवितर्कवीचारे पूर्वे ॥41॥
अवीचारं द्वितीयम् ॥42॥
वितर्क: श्रुतम् ॥43॥
वीचारोऽर्थव्यंजन-योगसंक्रान्ति: ॥44॥
सम्यग्दृष्टि-श्रावक-विरता-नन्तवियोजक-दर्शनमोह-क्षपकोपशम-कोपशांत-मोहक्षपक-क्षीणमोह-जिना: क्रमशोऽसंख्येय-गुण-निर्जरा: ॥45॥
पुलाक-वकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रंथा: ॥46॥
संयम-श्रुत-प्रतिसेवना-तीर्थलिङ्ग-लेश्योपपाद-स्थान-विकल्पत: साध्या: ॥47॥

10-मोक्षाधिकार

मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्च केवलम् ॥1॥
बन्धहेत्वभाव-निर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्ष: ॥2॥
औपशमिकादि-भव्यत्वानां च ॥3॥
अन्यत्र केवलसम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्य: ॥4॥
तदनन्तरमूर्ध्वं गच्छत्या-लोकान्तात् ॥5॥
पूर्वप्रयोगादसङ्गत्वाद्-बन्धच्छेदात्तथागतिपरिणामाच्च ॥6॥
आविद्धकुलालचक्रवद्-व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥7॥
धर्मास्तिकायाभावात् ॥8॥
क्षेत्र-काल-गति-लिङ्ग-तीर्थचारित्र-प्रत्येकबुद्धबोधित-ज्ञानावगाहनान्तर-संख्याल्पबहुत्वत: साध्या: ॥9॥
पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर shastra/tattvaarthasutra.md सुधारें।