॥ श्री ॥
श्रुतावतार
सर्वनाकीन्द्रवंदित - कल्याणपरंपरं देवं ।
प्रणिपत्य वर्द्धमानं श्रुतस्य वक्ष्येऽहमवतारम् ॥१॥

यद्यप्यनाद्यनिधनं श्रुतं तथाप्यत्र तन्निभेदेन मया ।
कालाश्रयेण तस्योत्पत्तिविनाशौ प्रवक्ष्येते ॥२॥

भरतेऽस्मिन्नवसर्पिण्युत्सर्पिण्याह्व्यौ प्रवर्तेते ।
कालौ सदापि जीवोत्सेधायुर्ह्रासवृद्धिकरौ ॥३॥

एकैकस्य पृथग्दशकोटीकोट्य: प्रमाणमुद्दिष्टं ।
वाध्र्युपमानावेतौ समाश्रितौ भवति कल्प इति ॥४॥

तत्रावसर्पिणीयं प्रवर्तमाना भवेत्समाऽस्याश्च ।
कालविभागा: प्रोक्ता: षडेव कालप्रभेदज्ञै: ॥५॥
सुषमसुषमाह्व्याद्या सुषमान्या सुषमदु:षमेत्यपरा ।
दुष्षमसुषमान्या दुष्षमाऽतिपूर्वा पराऽस्यैव ॥६॥
तत्र क्रमाच्चतस्रस्तिस्रो द्वे सागरोपमाख्यानाम् ।
कोटीकोट्यस्तिसृणामाद्यानां भवति परिमाणम् ॥७॥
कोटीकोटीवर्षसहस्रैरेतैश्चतुर्दशभिरूना ।
त्रिगुणैरंभोधीनां परिमाणं भवति तुर्याया: ॥८॥
एकोत्तरविंशत्यां वर्षसहस्रैर्मिता समोपान्त्या ।
तावद्भिरेव कलिता वर्षसहस्रै: समा षष्ठी ॥९॥

धनुषां षट्चत्वारि द्वे च सहस्रे शतानि पंचैव ।
हस्ता: सप्तारत्नि: षट्कालिकमानतोत्सेध: ॥१०॥
पल्यानि त्रीणि द्वे तथैककं वर्षपूर्वकोटी च ।
विंशच्छतं च विंशतिरब्दानां तन्नृणामायु: ॥११॥

तत्राद्ययोव्र्यतीते समये संपूर्णयोस्तृतीयाया: ।
पल्योपमाष्टमांशन्यूनाया: कुलधरा ये स्यु: ॥१२॥
तेषामाद्यो नाम्ना प्रतिश्रुति: सन्मतिद्र्वितीय स्यात् ।
क्षेमंकरस्तृतीय: क्षेमंधरसंज्ञकस्तुर्य: ॥१३॥
सीमंकरस्तथान्य: सीमंधरसाह्व्यो विमलवाह: ।
चक्षुष्माँश्च यशस्वानभिचंद्रश्चन्द्राभनामा च ॥१४॥
मरूदेवनामधेय: प्रसेनजिन्नाभिराजनामान्त्य: ।
हामाधिक्काराननुशासति निजतेजस: स्खलितान् ॥१५॥
हाकारं पंच ततो हामाकारं च पंच पंचान्ये ।
हामाधिक्कारान् कथयंति तनोर्दण्डनं भरत: ॥१६॥

रवितारालोकेभ्यस्त्रयो नृणामपनयन्ति भयमाढ्या: ।
दीपविचोदनमर्यादाऽऽवृतिवाहादिरोहमत: ॥१७॥
कथयन्ति तु चत्वार: सुतेक्षणाद्भीतिमपहरन्त्यन्य: ।
नामकृतिं शशधरमभि शिशुकेलिं प्रकुरूतेऽन्य: ॥१८॥
जीवति सुतै: सहान्यो जलतरणं गर्भमलविशुद्धिं च ।
नालनिकर्तनमपि च त्रयोऽपि परे व्यपदिशंति नृणां ॥१९॥

अथ नाभिराजनृपतेर्मरूदेव्यां व्यजनि नंदनो वृषभ: ।
तीर्थकृतामाद्योऽसौ प्रवर्त्य भरते भृशं तीर्थम् ॥२०॥
निर्वाणमवाप तत: पंचाशल्लक्षकोटिमितिवाद्र्धि: ।
यावदविच्छिन्नतया समागतं तत् श्रुतं सकलं ॥२१॥

जातस्ततोऽजितजिन: शिष्येभ्य: सोऽपि सम्यगुपदिश्य ।
तत् श्रुतमखिलं प्रापन्निर्वाणमनुत्तरं तद्वत् ॥२२॥
एवमजितादिचन्द्रप्रभान्ततीर्र्थेशिनामतिक्रांता ।
सागरकोटीनां त्रिंशक्रमाद्दशभिरथ नवभि: ॥२३॥
लक्षैस्तथा नवत्या नवभिश्च सहस्रकै: शतै: नवभि: ।
शंभवमुख्यात् श्रुतमापन्नमत्या च पुष्पदंतान्तात् ॥२४॥

अथ पुष्पदंततीर्थे नववारिधिकोटिगणनया कलिते ।
पल्योपमतुर्यांशे शेषे तत् श्रुतमवाप विच्छेदम् ॥२५॥
पल्यचतुर्भागमिते काले तीर्थे तत: समुत्पन्न: ।
शीतलजिन: स पुनराविष्कृतवांस्तत् श्रुतविशेषम् ॥२६॥
शीतलतीर्थे सागरशतेन षट्षष्ठिलक्षमितवर्षै: ।
षड्विंशत्या वर्षसहस्रैर्न्यर्न्यूनैकवाद्र्धिकोटिमिते ॥२७॥
पल्यार्धमात्रकाले शेषे तत्पुनरजन्य विच्छिन्नम् ।
मितवति गतिवति काले ततोऽभवत्तीर्थकृच्छ्रेयान् ॥२८॥
श्रेयस्तीर्थमपि१ चतुष्पंचाशत्सागरोपम प्रमिते ।
पल्यत्रिचतुर्भागे शेषे तत्पुनरवापान्तम् ॥२९॥
पल्यत्रिचतुर्भाग प्रमिते काले गते ततो जात: ।
श्रीवासुपूज्यभगवान् सोऽप्याविष्कृत्य तन्मुक्त: ॥३०॥

एवं वसुपूज्यात्मजविमलजिनानंतधर्मतीर्थेषु ।
त्रिंशत्नवकचतुष्कं त्रिपल्यपादोनितत्रिकैर्वाद्र्धीनां ॥३१॥
प्रमितेषु पल्यपल्य त्रिपादपल्यार्धपल्य पल्यांशे ।
शेषे शेषं तत् श्रुतमनुक्रमादाप विच्छेदम् ॥३२॥
अथ धर्मतीर्थसंतानान्तरकालस्य सत्यपर्यन्ते ।
उत्पद्य शांतिनाथस्तत्प्रकटीकृत्य मुक्तिमगात् ॥३३॥
शांत्यादिपाश्र्र्वपश्चिम तीर्थकराणां च तीर्थसंताने ।
पल्यार्धवर्षकोटीसहस्रोनितपल्यपादाभ्याम् ॥३४॥
कोटिसहस्रेण चतु:पंचाशद्गुणितशतसहस्रेण ।
षड्भिश्च शतसहस्रैर्लक्षाभि: पंचभिश्च तथा ॥३५॥
त्र्यधिकाशीतिसहस्रैर्युतार्धाष्टमशतैश्च पंचाशत् ।
सहितशतद्वितयेन च वर्षाणां सम्मिते क्रमश: ॥३६॥
चतुरमलबोधसंपत्प्रगल्भमतियतिजनैरविच्छिन्नै: ।
न क्वचिदप्यवच्छेदमापत्तत् श्रुतमुदात्तार्थम् ॥३७॥
अजिताद्यास्तीर्थकरा वृषभादिजिनेन्द्रतीर्थकालस्य ।
अंतर्वत्र्यायुष्का जाता इत्यत्र विज्ञेया: ॥३८॥

अथ पार्श्वनाथतीर्थस्यान्ते श्रीवर्द्धमाननामाऽभूत् ।
प्रियकारिण्यां सिद्धार्थभूपतेरन्त्यतीर्थकर: ॥३९॥

त्रिंशद्वर्षेषु कुमार एव विगतेष्वसौ प्रवव्राज ।
द्वादशभिर्वर्षाभि: प्रापद्वै केवलं तप: कुर्वन् ॥४०॥

उदिते केवलबोधे धनद: शक्राज्ञया चकार सभाम् ।
समवसृतिनामधेयां तस्य स्यादखिललोक गुरो: ॥४१॥

सुरनरमुनिवृन्दारकवृन्देष्वपि समुदितेषु तीर्थकृत: ।
षट्षष्टिरहानि न निर्जगाम दिव्यध्वनिस्तस्य ॥४२॥

दिव्यध्वनेरनिर्गमकारणमवगम्य गणधराभावम् ।
आनेतुमगात्तमत: सुत्रामा गौतमग्रामम् ॥४३॥

तत्र स गत्वा ब्राह्मणशालायामिन्द्रभूतिनामानम् ।
छात्रशतपंचकेभ्यो व्याख्यानं विदधतं विप्रम् ॥४४॥
गौतमगोत्रं विद्यामदगर्वितमखिलवेद वेदांग
प्रतिबुद्धतत्वमवलोक्य कवलिकाछात्रवेषेण ॥४५॥
तद्व्याख्यानं श्रृण्वन्नेकोद्देशे द्विजन्मशालाया: ।
स्थित्वा ततो भवद्भि: प्रतिबुद्धं तत्त्वमिति तस्य ॥४६॥
छात्रेभ्य: प्रतिपादनसमयेऽसौ नासिकाग्रभंगेन ।
मुहुरत्यरूचिं प्रकटीकुर्वन्नुपलक्षितश्छात्रै: ॥४७॥

तेपि ततस्तच्चेष्टितमीदृशमावेदयन् स्वकीयगुरो: ।
सोऽपि ततो द्विजमुख्यस्तमपूर्वं छात्रमित्यवदत् ॥४८॥

शास्त्राणि करतलामलकायन्तेऽस्माकमिह समस्तानि ।
अपरेऽपि वादिनोऽस्माज्जायंते नष्टदुष्टमदा: ॥४९॥

तत्केन हेतुना तद्व्याख्यानं नैव रोचते तुभ्यम् ।
कथयेति ततस्तस्मै प्रतिवचनमुवाच सोऽपीत्थम् ॥५०॥

यदि सर्वशास्त्रतत्त्वं जानन्ति भवन्त एव तदमुष्या: ।
आर्याया: कथयन्त्वर्थमिति पठति तत्काव्यं ॥५१॥

षड्द्रव्यनवपदार्थत्रिकालपंचास्तिकायषट्कायान् ।
विदुषां वर: स एव हि यो जानाति प्रमाण नयै: ॥५२॥

श्रुत्वा तेनेत्युदितामश्रुतपूर्वामतीव विषमार्थाम् ।
आर्यामिमां ततोऽस्या: सोऽर्थमजानन्निति तमूचे ॥५३॥

कस्यच्छात्रस्तावत्त्वं कथयेत्याह सोऽपि भट्टार्हत् ।
श्री वर्द्धमानभट्टारकस्य जगतीगुरोश्छात्र: ॥५४॥

सिद्धार्थनन्दस्य छात्रस्त्वं चेन्महेन्द्रजालविद: ।
देवागमं जनस्य प्रतिदर्शयतो वियन्मार्गे ॥५५॥

तत्तेनैव विवादं सार्धं प्रकरोमि किं त्वया कार्यं ।
त्वत्तो जयापजययोर्ममैव विद्वत्सु लघुता स्यात् ॥५६॥

एहि व्रजाव इत्यभिधाय पुरोधाय गौतम: शक्रम् ।
समवसृतिं भ्रातृभ्यामायाद्वायुवन्हिभूतिभ्याम् ॥५७॥

दृष्ट्वा मानस्तम्भं विगलितमानोदयो द्विजन्माऽसीत् ।
भ्रातृभ्यां सह जिनपतिमवलोक्य परीत्य तं भक्त्या ॥५८॥
नत्वा नुत्वा त्यक्त्वाऽऽशेषपरिग्रहमनाग्रहो दीक्षां ।
आदायाग्रिमगणभृद्बभूव सप्तर्द्धिसंपन्न: ॥५९॥

अथ भगवान् किं जीवोऽस्ति नास्ति वा किं गुण: कियान्कीदृक ।
इत्यादिषडयुतप्रमितं तद्गणेट् प्रश्नपर्यंते ॥६०॥

जीवोऽस्त्यनादिनिधन: शुभाशुभविभेदकर्मणां कर्ता ।
सदसत्कर्मफलानां भोक्ता स्वोपात्ततनुमात्र: ॥६१॥
उपसंहरणविसर्पणधर्मज्ञानादिभिर्गुणैर्युक्त: ।
ध्रौव्योत्पत्तिव्ययलक्षण: स्वसंवेदनग्राह्य: ॥६२॥
नोकर्मकर्मपुद्गलमनादिरूपात्तकर्मसंबंधात् ।
गृण्हन् मुंचन् भ्राम्यन् भवे भवे तत्क्षयान्मुक्त: ॥६३॥
इत्याद्यनेकभेदैस्तथा स जीवादिवस्तुसद्भावम् ।
दिव्यध्वनिना स्फुटमिन्द्रभूतये सन्मतिरवोचत् ॥६४॥

श्रावणबहुलप्रतिपद्युदितेऽर्के रौद्रनामनि मुहूर्ते।
अभिजिद्गते शशांके तीर्थोत्पत्तिर्बभूव गुरो: ॥६५॥
तेनेन्द्र भूतिगणिना तद्दिव्यवचोऽवबुध्य तत्त्वेन ।
ग्रन्थोऽङ्गपूर्वनाम्ना प्रतिरचितो युगपदपराण्हे ॥६६॥
प्रतिपादितं ततस्तत् श्रुतं समस्तं महात्मना तेन ।
प्रथितात्मीयसधर्मणे सुधर्माभिधानाय ॥६७॥
सोपि प्रतिपादितवान् जम्बूनाम्ने सधर्मणे स्वस्य ।
तेभ्यस्ततो गणिभ्योऽन्यैरपि तदधीतं मुनिवृषभै: ॥६८॥

सन्मतिजिनस्ततोऽसावासन्नविमुक्ति भव्यसस्यानाम् ।
परमानंदं जनयन् धर्मामृतवृष्टिसेकेन ॥६९॥
त्रिंशतमिह वर्षाणां विहृत्य बहुजनपदान् जगत्पूज्य: ।
सरसिजवनपरिकलिते पावापुरबहिरुद्याने ॥७०॥
वत्सरचतुष्टयेऽर्द्वं त्रिमासहीने चतुर्थकालस्य ।
शेषे कार्तिककृष्ण चतुर्दश्यां निर्वृतिमवाप ॥७१॥

भगवत्परिनिर्वाणक्षण एवावाप केवलं गणभृत् ।
गौतमनामा सोऽपि द्वादशभिर्वत्सरैर्मुक्त: ॥७२॥
निर्वाणक्षण एवासावापत्केवलं सुधर्ममुनि: ।
द्वादशवर्षाणि विहृत्य सोऽपि मुक्तिम परामाप ॥७३॥
जम्बूनामाऽपि ततस्तन्निर्वृतिसमय एव कैवल्यम् ।
प्राप्याष्टत्रिंशतमिह समा विहृत्याप निर्वाणम् ॥७४॥
एते त्रयोऽपि मुनयोऽनुबद्धकेवलिविभूतयोऽमीषाम् ।
केवलदिवाकरोऽस्मिन्नस्तमवाप व्यतिक्रान्ते ॥७५॥

जम्बूनामा मुक्तिम प्राप यदासौ तथैव विष्णुमुनि: ।
पूर्वांग भेदभिन्नाशेषश्रुतपारगो जात: ॥७६॥
एवमनुबद्धसकलश्रुतसागरपारगामिनोऽत्रासन् ।
नन्द्यपराजित गोवर्धनाह्वया भद्रबाहुश्च ॥७७॥
एषां पंचानामपि काले वर्षशतसम्मितेऽतीते ।
दशपूर्वविदोऽभूवंस्तत एकादश महात्मान: ॥७८॥
तेषामाद्यो नाम्ना विशाखदत्तस्तत: क्रमेणासन् ।
प्रोष्ठिलनामा क्षत्रियसंज्ञो जयनागसेनसिद्धार्था: ॥७९॥
धृतिषेणविजयसेनौ च बुद्धिमान्गङ्गधर्मनामानौ ।
एतेषां वर्षशतं त्र्यशीतियुतमजनि युगसंख्या ॥८०॥

नक्षत्रो जयपाल: पांडुर्द्रुंसेनकंसनामानौ ।
एते पंचापि ततो बभूवुरेकादशांगधरा: ॥८१॥
विंशत्यधिकं वर्षशतद्वयमेषां बभूव युगसंख्या ।
आचारांगधराश्चत्वारस्तत उद्भवन् क्रमश: ॥८२॥
प्रथमस्तेषु सुभद्रोऽभयभद्रोऽन्यापरोऽपि जयबाहु: ।
लोहार्योऽन्त्यश्चैतेऽष्टादशवर्ष युगसंख्या ॥८३॥

विनयधर: श्रीदत्त: शिवदत्तोऽन्योऽर्हद्दत्तनामैते ।
आरातीया यतयस्ततोऽभवन्नंगपूर्वदेशधरा: ॥८४॥
सर्वांग पूर्वदेशैकदेशवित्पूर्वदेशमध्यगते ।
श्रीपुण्ड्रवर्धनपुरे मुनिरजनि ततोऽर्हद्बल्याख्य: ॥८५॥
स च तत्प्रसारणाधारणा विशुद्धातिसत्क्रियोद्युक्त: ।
अष्टांगनिमित्तज्ञ: संघानुग्रहनिग्रहसमर्थ: ॥८६॥

आस्ते संवत्सरपंचकावसाने युगप्रतिक्रमणम् ।
कुर्वन्योजनशतमात्रवर्तिमुनिजन समाजस्य ॥८७॥
अथ सोऽन्यदा युगांते कुर्वन् भगवान् युगप्रतिक्रमणम् ।
मुनिजनवृन्दमपृच्छत्किं सर्वेऽप्यागता यतय: ॥८८॥
तेऽप्यूचुर्भगवन् वयमात्मात्मीयेन सकलसंघेन ।
सममागतास्ततस्तद्वच: समाकण्र्य सोऽपि गणी ॥८९॥
काले कलावमुष्मिन्नित: प्रभृत्यत्र जैनधर्मोऽयम् ।
गणपक्षपातभेदै: स्थास्यति नोदासभावेन ॥९०॥

इति संचिंत्य गुहाया: समागता ये यतीश्वरास्तेषु ।
कांश्चिन्नंद्यभिधानान् कांश्चि 'द्वीरा' ह्व्यानकरोत् ॥९१॥
प्रथितादशोक वाटात्समागता ये मुनीश्वरास्तेषु ।
काँश्चि 'दपराजिता' ख्यान् काँश्चिद् 'देवा' ह्वयानकरोत् ॥९२॥
पंचस्तूप्यनिवासादुपागता येऽनगरिणस्तेषु ।
काँश्चित्'सेना' भिख्यान्काँश्चिद्'भद्रा'भिधानकरोत् ॥९३॥
ये शाल्मली महाद्रुम मूलाद्यतयोऽभ्युपागतास्तेषु ।
काँश्चिद् 'गुणधर' संज्ञान् काँश्चिद् गुप्ताह्यानकरोत् ॥९४॥
ये खण्डकेसरद्रुममूलान्मुनय: समागतास्तेषु ।
काँश्चित्'सिंहा'भिख्यान् कांश्चिच् 'चन्द्रा' ह्व्यानकरोत् ॥९५॥

पंचस्तूप्यात्सगुप्तौ गुणधरवृषभ: शाल्मलीवृक्ष मूलात्—
निर्यातौ सिंहचंद्रौ प्रथितगुणगणौ केसरात्खण्डपूर्वात् ॥९६॥
अन्ये जगुर्गुहाया विनिर्गता 'नंदिनो' महात्मान: ।
'देवाश्चाशोकवनात्पंचस्तूप्यास्तत: 'सेन:' ॥९७॥
विपुलतरशाल्मलीद्रुममूलगतावासवासिनो 'वीरा:' ।
'भद्रा' श्च खण्डकेसरतरूमूलनिवासिनो जाता: ॥९८॥
गुहायां वासितो ज्येष्ठो द्वितीयोऽशोकवाटिकात् ।
निर्यातौ 'नंदि 'देवा' भिधानावाद्यावनुक्रमात् ॥९९॥
पंचस्तूप्यास्तु 'सेना' नां 'वीरा' णां शाल्मलीदु्रम: ।
खण्डकेसरनामा च 'भद्र:' 'सिंहो'ऽस्य सम्मत: ॥१००॥

एवं तस्यार्हद्बलेर्मुनिजनसंघप्रवर्तकस्यासन् ।
विनययजना मुनीन्द्रा: पंचकुलाचारतोपास्या: ॥१०१॥
तस्यानंतरमनगारपुंगवो माघनन्दिनामाऽभूत् ।
सोऽप्यंगपूर्वदेशं प्रकाश्य समाधिना दिवं यात: ॥१०२॥
देशे तत: सुराष्ट्रे गिरिनगरपुरान्तिकोर्जयंतगिरौ ।
चंद्रगुहाविनिवासी महातपा: परममुनिमुख्य: ॥१०३॥
अग्रायणीयपूर्वस्थितपंचमवस्तुगतचतुर्थमहाकर्म
प्राभृतकज्ञ: सूरिर्धरसेननामाऽभूत् ॥१०४॥
सोऽपि निजायुष्यांतं विज्ञायास्माभिरलमधीतमिदं ।
शास्त्रम व्युच्छेदमवाप्स्यतीति संचिन्त्य निपुणमति: ॥१०५॥

देशेन्द्रदेशनामनि वेणाकतटीपुरे महामहिमा ।
समुदितमुनीन् प्रति ब्रह्मचारिणा प्रापयल्लेखं ॥१०६॥
आदाय लेखपत्रं तेप्यथ तद्ब्रह्मचारिणो हस्तात् ।
प्रविमुच्य बंधनं वाचयाम्बभूवुस्तदा महात्मान: ॥१०७॥
स्वस्ति श्रीमत इत्यूर्जयंततटनिकट चंद्रगुहा-
वासाद्धरसेनगणी वेणाकतटसमुदितयतीन् ॥१०८॥
अभिवंद्य कार्यमेवं निगदत्यस्माकमायुरवशिष्टम् ।
स्वल्पं तस्मादस्मच्छ्रुतस्य शास्त्रस्य व्युच्छित्ति: ॥१०९॥
न स्याद्यथा तथा द्वौ यतीश्वरौ ग्रहणधारणसमर्थौ ।
निशितप्रज्ञौ यूयं प्रस्थापयतेति लेखार्थम् ॥११०॥

सम्यगवधार्य तैरपि तथाविधौ द्वौ मुनी समन्विष्य ।
प्रहितौ तावपि गत्वा चापतुररमूर्जयंतगिरिं ॥१११॥
आगमनदिने च तयो: पुरैव धरसेन सूरिरपि रात्रौ ।
निजपादयो: पतन्तौ धवलवृषावैक्षत स्वप्ने ॥११२॥
तत्स्वप्नेक्षण मात्राज्जयतु श्रीदेवतेति समुपलपन् ।
उदतिष्ठदत: प्रात: समागतावैक्षत मुनी द्वौ ॥११३॥

प्राघूर्णिकोचितविधिं तयोर्विधायादरात्ततस्ताभ्यां ।
विश्राम्य त्रीन्दिवसान् निवेदितागमनहेतुभ्याम् ॥११४॥
सुपरीक्षा हृन्निर्वर्तिकरीति संचिन्त्य दत्तवान् सूरि: ।
साधयितुं विद्ये द्वे हीनाधिकवर्णसंयुक्ते ॥११५॥
श्रीमन्नेमिजिनेश्वर सिद्धिशिलायां विधानतो विद्या
संसाधनं विदधतोस्तयोश्च पुरत: स्थिते देव्यौ ॥११६॥
हीनाक्षरविद्यासाधकस्य देव्येकलोचनाग्रेऽस्थात् ।
अधिकाक्षरविद्यासाधकस्य सा दंतुरा तस्थौ ॥११७॥

दृष्ट्वा ताविति देव्यौ न देवतानां स्वभाव एष इति ।
प्रविचिन्त्य ततो विद्यामंत्रव्याकरणविधिनैव ॥११८॥
प्रस्तार्य न्यूनाधिकवर्णक्षेपापचविधानेन ।
पुनरपि पुरतश्च तयोर्देव्यौ ते दिव्यरूपेण ॥११९॥
केयूरहारनूपुरकटककटीसूत्रभासुरशरीरे ।
अग्रे स्थित्वा वदतां किं करणीयं प्रवदतेति ॥१२०॥
तावप्यूचतुरेतन्नास्माकं कार्यमस्ति तत्किमपि ।
ऐहिकपारत्रिकयोर्भवतीभ्यां सिद्धयति यदत्र परम् ॥१२१॥
किन्तु गुरूनियोगादावाभ्यां विहितमेतदिती वचनम् ।
श्रुत्वा तयोरभीष्टं ते जग्मतु: स्वास्पदं देव्यौ ॥१२२॥

विद्यासाधनमेवं विधाय तोषा त्ततो गुरो: पाश्र्वम् ।
गत्वा तौ निजवृत्तान्तमवदतां तद्यथावृत्तम् ॥१२३॥
सोऽप्यतियोग्याविति संचिन्त्य तत: सुप्रशस्ततिथिवेला ।
नक्षत्रेषु तयोर्व्याख्यातुं प्रारब्धवान् ग्रंथम् ॥१२४॥
ताभ्यामप्यध्ययनं कुर्वाणाभ्यामपास्ततन्द्राभ्याम् ।
परममविलंघयद्भ्यां गुरुविनयं ज्ञानविनयं च ॥१२५॥

दिवसेषु कियत्स्वपिगतेष्वथाषाढमासि सितपक्षे ।
एकादश्यां च तिथौ ग्रंथसमाप्ति: कृता विधिना ॥१२६॥
तद्दिन एवैकस्य द्विजपक्तिम विषमितामपास्य सुरै: ।
कृत्वा कुंडोपमिताम नाम कृतं 'पुष्पदंत' इति ॥१२७॥
अपरोऽपि तुर्यनादैर्जयघोषैर्गंधमाल्यधूपाद्यै: ।
'भूतपति'रेष इत्याहूतो भूतैर्महं कृत्वा ॥१२८॥

स्वासन्नमृतिं ज्ञात्वा माभूत्संक्लेशमेतयोरस्मिन् ।
इति गुरुणा संचिन्त्य द्वितीयदिवसे ततस्तेन ॥१२९॥
प्रियहितवचनैरमुष्य ताबुभौ एव कुरीश्वरं प्रहितौ ।
तावपि नवभिदिवसैर्गत्वा तत्पत्तनमवाप्य ॥१३०॥
योगं प्रगृह्य तत्राषाढे मास्यसितपक्षपंचम्याम् ।
वर्षाकालं कृत्वा विहरन्तौ दक्षिणाभिमुखं ॥१३१॥

जग्मतुरथ करहाटे तयो: स य: पुष्पदंतनाममुनि: ।
जिनपालिताभिधानं दृष्ट्वासौ भागिनेयं स्वम् ॥१३२॥
दत्वा दीक्षां तस्मै तेन समं देशमेत्य वनवासम् ।
तस्थौ भूतबलिरपि मथुरायां द्रविडदेशेऽस्थात् ॥१३३॥
अथ पुष्पदंतमुनिरप्यध्यापयितुं स्वभागिनेयं तम् ।
कर्मप्रकृतिप्राभृतमुपसंहार्यैव षड्भिरिह खण्डै: ॥१३४॥
वांच्छन् गुणजीवादिकविंशतिविधसूत्रसत्प्ररूपणया ।
युक्तम जीवस्थानाद्यधिकारं व्यरचयत्सम्यक् ॥१३५॥

सूत्राणि तानि शतमध्याप्य ततो भूतिबलि गुरो:पाश्र्वं ।
तदभिप्रायं ज्ञातुं प्रस्थापयदगमदेषोऽपि ॥१३६॥
तेन तत: परिपठितां भूतबलि: सत्प्ररूपणां श्रुत्वा ।
षट्खण्डागमरचनाभिप्रायं पुष्पदंत गुरो: ॥१३७॥
विज्ञायाल्पायुष्यानल्पमतीन्मानवान् प्रतीत्य तत: ।
द्रव्य प्ररूपणाद्यधिकार: खण्डपंचकस्यान्वक् ॥१३८॥
सूत्राणि षट्सहस्रग्रंथान्यथ पूर्वसूत्रसहितानि ।
प्रविरच्य महाबन्धाह्व्यं तत: षष्ठकं खण्डं ॥१३९॥
त्रिंशत्सहस्रसूत्रग्रंथं व्यरचयदसौ महात्मा ।
तेषां पंचानामपि खण्डानां श्रृणुत नामानि ॥१४०॥

आद्यं जीवस्थानं क्षुल्लकबन्धाह्व्यं द्वितीयमत: ।
बंधस्वामित्वं भाववेदनावर्गणाखण्डे ॥१४१॥
एवं षट्खण्डागमरचनां प्रविधाय भूतबल्यार्य: ।
आरोप्यासद्भावस्थापनया पुस्तकेषु तत: ॥१४२॥
ज्येष्ठसितपक्षपंचम्यां चातुर्वर्ण्यसंघसमवेत: ।
तत्पुस्तकोपकरणैर्व्यधात्क्रियापूर्वकं पूजाम् ॥१४३॥
श्रुतपंचमीति तेन प्रख्यातिं तिथिरियं परामाप ।
अद्यापि येन तस्यां श्रुतपूजां कुर्वते जैना: ॥१४४॥

जिनपालितं ततस्तं भूतबलि: पुष्पदंतगुरूपर्श्वम ।
षट्खण्डान्यप्यध्यगमयत्तत्पुस्तकसमेतम् ॥१४५॥
अथ पुष्पदंतगुरुरपि जिनपालितहस्तसंस्थितमुदीक्ष्य ।
षट्खण्डागमपुस्तकमहो मया चिंतितं कार्यं ॥१४६॥
संपन्नमिति समस्तांगोत्पन्नमहाश्रुतानुरागभर: ।
चातुर्वर्ण्यसुसंघान्वितो विहितवान् क्रियाकर्म ॥१४७॥
गंधाक्षतमाल्यांबरवितानघण्टाध्वजादिभि:प्राग्वत् ।
श्रुतपंचम्यामकरोत्सिद्धांतसुपुस्तकमहेज्याम् ॥१४८॥

एवं षट्खण्डागमसूत्रोत्पत्तिं प्ररूप्य पुनरधुना ।
कथयामि कषायप्राभृतस्य सत्सूत्रसंभूतिम् ॥१४९॥
ज्ञानप्रवादसंज्ञकपंचमपूर्वस्थदशमवस्तुतृतीय ।
प्रायोदोषप्राभृतज्ञोऽभूद् गुणधरमुनीन्द्र: ॥१५०॥
गुणधरधरसेनान्वयगुर्वो: पूर्वापरक्रमोऽस्माभि: ।
न ज्ञायते तदन्वयकथकागममुनिजनाभावात् ॥१५१॥

अथ गुणधरमुनिनाथ: सकषायप्राभृतान्वयं तत्प्रायो-
दोषप्राभृतकापरसंज्ञां साम्प्रतिकशक्तिमपेक्ष्य ॥१५२॥
त्र्यधिकाशीत्या युक्त्तम शतं च मूलसूत्रगाथानाम् ।
विवरणगाथानां च त्र्यधिकं पंचाशतमकार्षीत् ॥१५३॥
एवं गाथासूत्राणि पंचदशमहाधिकाराणि ।
प्रविरच्य व्याचख्यौ स नागहस्त्यार्यमंक्षुभ्याम् ॥१५४॥
पार्श्वे तयोर्दव्योरपि अधीत्य सूत्राणि तानि यतिवृषभ: ।
यतिवृषभनामधेयो बभूव शास्त्रार्थ निपुणमति: ॥१५५॥
तेन ततो यतिपतिना तद्गाथावृत्तिसूत्ररूपेण ।
रचितानि षट्सहस्त्राग्रंथान्यथ चूर्णिसूत्राणि ॥१५६॥
तस्यान्ते पुनरूच्चारणादिकाचार्यसंज्ञकेन तत: ।
सूत्राणि तानि सम्यगधीत्य ग्रंथार्थरूपेण ॥१५७॥
द्वादशगुणितसहस्त्राग्रंथान्युच्चारणाख्यसूत्राणि ।
रचितानि वृत्तिरूपेण तेन तच्चूर्णिसूत्राणां ॥१५८॥
गाथाचुर्ण्युच्चारणसूत्रैरूपसंहृतं कषायाख्य ।
प्राभृतमेवं गुणधरयतिवृषभोच्चारणाचार्यै: ॥१५९॥

एवं द्विविधो द्रव्यभावपुस्तकगत: समागच्छन् ।
गुरुपरिपाट्या ज्ञात: सिद्धांत: कुंडकुंदपुरे ॥१६०॥
श्रीपद्मनंदिमुनिना सोऽपि द्वादशसहस्त्रपरिणाम: ।
ग्रंथपरिकर्म कर्ता षट्खण्डाद्यत्रिखण्डस्य ॥१६१॥
काले तत: कियत्यपि गते पुन: शामकुण्डसंज्ञेन ।
आचार्येण ज्ञात्वा द्विभेदमप्यागम: कार्त्स्न्यात् ॥१६२॥
द्वादशगुणितसहस्त्रम ग्रंथं सिद्धांतयोरुभयो: ।
षष्ठेन विना खण्डेन पृथुमहाबंधसंज्ञेन ॥१६३॥
प्राकृतसंस्कृतकर्णाटभाषया पद्धति: परा रंचिता ।
तस्मादारात्पुनरपि काले गतवति कियत्यपि च ॥१६४॥

अथ तुंबुलूरनामाऽचार्योऽभूत्तुंबुलूरसदग्रामे ।
षष्ठेन विना खण्डेन सोऽपि सिद्धांतयोरुभयो: ॥१६५॥
चतुरधिकाशीतिसहस्त्रग्रंथरचनया युक्ताम् ।
कर्णाटभाषयाकृतमहतीं चूड़ामणिं व्याख्यां ॥१६६॥
सप्तसहस्त्रग्रंथां षष्ठस्य च पंचिकां पुनरकार्षीत् ।
कालान्तरे तत: पुनरासन्ध्यां पलरि तार्किकार्कोऽ भूत् ॥१६७॥
श्रीमान् समंतभद्रस्वामीत्यथ सोऽप्यधीत्य तं द्विविधम् ।
सिद्धांतमत: षट्खण्डागमगतखण्डपंचकस्य पुन: ॥१६८॥
अष्टौचत्वारिंशत्सहस्त्रसद्ग्रंथरचनया युक्तां ।
विरचितवानतिसुंदरमृदुसंस्कृत भाषया टीकाम् ॥१६९॥
विलिखन् द्वितीयसिद्धांतस्य व्याख्यां सधर्मणा स्वेन ।
द्रव्यादिशुद्धिकरणप्रयत्नविरहात्प्रतिनिषिद्धम् ॥१७०॥

एवं व्याख्यानक्रममवाप्तवान् परमगुरुपरंपरया ।
आगच्छन् सिद्धांतो द्विविधोऽप्यतिनिशितबुद्धिभ्याम् ॥१७१॥
शुभरविनंदिमुनिभ्यां भीमरथिकृष्णमेखयो: सरितो: ।
मध्यमविषये रमणीयोत्कलिकाग्रामसामीप्यम् ॥१७२॥
विख्यातमगणवल्लीग्रामेऽथ विशेषरूपेण ।
श्रुत्वा तयोश्च पाश्र्वे तमशेषं बप्पदेवगुरू: ॥१७३॥
अपनीय महाबंधं षट्खण्डाच्छेषपंचखण्डे तु ।
व्याख्याप्रज्ञप्तिं च षष्ठं खण्डं च तत् संक्षिप्य ॥१७४॥
षण्णां खण्डानामिति निष्पन्नानां तथा कषायाख्य
प्राभृतकस्य च षष्ठिसहस्त्रग्रंथप्रमाण युताम् ॥१७५॥
व्यलिखत्प्राकृतभाषारूपां सम्यक्पुरातनव्याख्यां ।
अष्टसहस्त्रग्रन्थां व्याख्यां पंचाधिकां महाबन्धे ॥१७६॥

काले गते कियत्यपि तत: पुनश्चित्रकूटपुरवासी ।
श्रीमानेलाचार्यो बभूव सिद्धांत तत्त्वज्ञ: ॥१७७॥
तस्य समीपे सकलं सिद्धांतमधीत्य वीरसेनगुरू: ।
उपरितमनिबंधनाद्यधिकारानष्ट च लिलेख ॥१७८॥
आगत्य चित्रकूटात्तत: स भगवान्गुरोरनुज्ञानात् ।
वाटग्रामे चात्राऽऽनतेन्द्रकृतजिनगृहे स्थित्वा ॥१७९॥
व्याख्याप्रज्ञप्तिमवाप्य पूर्वषट्खण्डतस्ततस्तस्मिन् ।
उपरितमबंधनाद्यधिकारैरष्टादशविकल्पै: ॥१८०॥

सत्कर्मनामधेयं षष्ठं खण्डं विधाय संक्षिप्य ।
इति षण्णां खण्डानां ग्रंथसहस्रैद्रर्विसप्तत्या ॥१८१॥
प्राकृतसंस्कृतभाषामिश्रां टीकां विलिख्य धवलाख्यां ।
जयधवलां च कषायप्राभृतके चतृसृणां विभक्तीनां ॥१८२॥
विंशति सहस्त्रसद्ग्रन्थरचनया संयुतां विरच्य दिवम् ।
यातस्तत: पुनस्तच्छिष्यो जयसेनगुरुनामा ॥१८३॥
तच्छेषं चत्वारिंशता सहस्रै: समापितवान् ।
जयधवलैवं षष्ठिसहस्त्रसदग्रंथोऽभवट्टीका ॥१८४॥
एवं श्रुतावतारो निरूपित: श्रीन्द्रनन्दियतिपतिना ।
श्रुतपंचम्यामृषिभिव्र्याख्येयो भव्यलोकेभ्य: ॥१८५॥
यत्किंचिदत्र लिखितं समयविरूद्धं मयाऽल्पबोधेन ।
अपनीय तदागमतत्त्ववेदिन: शोधयन्तूच्चै: ॥१८६॥
श्लोकद्वयेन वृत्तेनैकेनाशीतिशतमितार्याभि: ।
सप्तोत्तरद्विशत्यां ग्रंथेनायं परिसमाप्त: ॥१८७॥
श्लोकद्वयेन वृत्तेनैकैन चतुराशीतिशत मितार्याभि: ।
सप्ताशीति च शतेन ग्रन्थेनायं परिसमाप्तो ॥१८७॥

पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर

shastra/shrutaavataara.md सुधारें।
श्रुतधारा · श्रुतावतार — मूल पाठ · स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं