॥ श्री ॥
रत्नकरण्ड श्रावकाचार
आचार्य श्री समन्तभद्र स्वामी
नम: श्री वर्धमानाय निर्धूत कलिलात्मने
सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥1॥

देशयामि समीचीनं, धर्मं कर्म-निबर्हणम्
संसारदु:खत: सत्वान्, यो धरत्युत्तमे सुखे ॥2॥

सद्-दृष्टिज्ञानवृत्तानि, धर्मं धर्मेश्वरा विदु:
यदीय-प्रत्यनी-कानि, भवन्ति भवपद्धति: ॥3॥

सम्यग्दर्शन-अधिकार
श्रद्धानं परमार्थाना-माप्तागमतपोभृताम्
त्रिमूढ़ापोढ-मष्टाङ्गं, सम्यग्दर्शन-मस्मयम् ॥4॥

आप्तेनोच्छिन्नदोषेण, सर्वज्ञेनागमेशिना
भवितव्यं नियोगेन, नान्यथा ह्याप्तता भवेत् ॥5॥

क्षुत्पिपासाजरातङ्क-जन्मान्तक-भयस्मयाः
न रागद्वेषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥6॥

परमेष्ठी परंज्योति: विरागो विमल: कृती
सर्वज्ञोऽनादिमध्यान्त:, सार्व: शास्तोपलाल्यते ॥7॥

अनात्मार्थं विना रागै:, शास्ता शास्ति सतो हितम्
ध्वनन् शिल्पिकरस्पर्शा-न्मुरज: किमपेक्षते ॥8॥

आप्तोपज्ञमनुल्लंघ्यम्-दृष्टेष्ट-विरोधकम्
तत्त्वोपदेश-कृत्सार्वं-शास्त्रं-कापथ-घट्टनम् ॥9॥

विषयाशावशातीतो निरारम्भोऽपरिग्रहः
ज्ञानध्यानतपोरक्त: तपस्वी स प्रशस्यते ॥10॥

इदमेवे-दृशमेव, तत्त्वं नान्यन्न चान्यथा
इत्यकम्पायसाम्भोवत्, सन्मार्गेऽसंशया रुचि: ॥11॥

कर्मपरवशे सान्ते, दुखैरन्तरितोदये
पापबीजे सुखेऽनास्था, श्रद्धानाकाङ्क्षणा स्मृता ॥12॥

स्वभावतोऽशुचौ काये, रत्नत्रयपवित्रिते
निर्जुगुप्सा गुणप्रीति-र्मता निर्विचिकित्सिता ॥13॥

कापथे पथि दु:खानां, कापथस्थेप्यसम्मति:
असम्पृक्ति-रनुत्कीर्ति-रमूढ़ा-दृष्टिरुच्यते ॥14॥

स्वयं शुद्धस्य मार्गस्य, बालाशक्तजनाश्रयाम्
वाच्यतां यत्प्रमार्जन्ति, तद्वदन्त्युपगूहनम् ॥15॥

दर्शनाच्चरणाद्वापि, चलतां धर्मवत्सलै:
प्रत्यवस्थापनं प्राज्ञै:, स्थितिकरणमुच्यते ॥16॥

स्वयूथ्यान्प्रति सद्भाव-सनाथापेतकैतवा
प्रतिपत्ति-र्यथायोग्यं, वात्सल्यमभिलप्यते ॥17॥

अज्ञानतिमिरव्याप्ति-मपाकृत्य यथायथम्
जिनशासनमाहात्म्य-प्रकाश: स्यात्प्रभावना ॥18॥

तावदञ्जनचौरोऽङ्गे ततोऽनन्तमतिः स्मृता
उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥19॥
ततो जिनेन्द्रभक्तोऽन्यो वारिषेणस्ततः परः
विष्णुश्च वज्रनामा च शेषयोर्लक्ष्यतां गताः ॥20॥

नाङ्गहीनमलं छेत्तुं दर्शनं जन्मसन्ततिम्
न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम् ॥21॥

आपगा-सागर-स्नान-मुच्चय: सिकताश्मनाम्
गिरिपातोऽग्निपातश्च लोकमूढं निगद्यते ॥22॥

वरोपलिप्सयाशावान् रागद्वेषमलीमसाः
देवता यदुपासीत देवतामूढमुच्यते ॥23॥
देवता यदुपासीत देवतामूढमुच्यते ॥23॥
सग्रन्थारम्भहिंसानां संसारावर्तवर्तिनाम्
पाषण्डिनां पुरस्कारो ज्ञेयं पाषण्डिमोहनम् ॥24॥

ज्ञानं पूजां कुलं जातिं, बलमृद्धिं तपो वपु:
अष्टावाश्रित्य मानित्वं, स्मयमाहुर्गतस्मया: ॥25॥

स्मयेन योऽन्यानत्येति धर्मस्थान् गर्विताशयः
सोऽत्येति धर्ममात्मीयं, न धर्मो धार्मिकैर्विना ॥26॥

यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम्
अथ पापास्रवोऽस्त्यन्यसम्पदा किं प्रयोजनम् ॥27॥

सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम्
देवा देवं विदुर्भस्मगूढाङ्गारान्तरौजसम् ॥28॥

श्वापि देवोऽपि देवः श्वा जायते धर्मकिल्विषात्
कापि नाम भवेदन्या सम्पद्धर्माच्छरिरीणाम् ॥29॥

भयाशास्नेहलोभाच्च कुदेवागमलिङ्गिनाम्
प्रणामं विनयं चैव न कुर्य्युः शुद्धदृष्टयः ॥30॥

दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते
दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते ॥31॥

विद्यावृत्तस्य सम्भूति-स्थितिवृद्धिफलोदया:
न सन्त्यसति सम्यक्त्वे, बीजाभावे तरोरिव ॥32॥

गृहस्थो मोक्षमार्गस्थो निर्मोहो नैव मोहवान्
अनगारो गृही श्रेयान् निर्मोहो मोहिनो मुनेः ॥33॥

न सम्यक्त्वसमं किञ्चित्, त्रैकाल्ये त्रिजगत्यपि
श्रेयोऽश्रेयश्च मिथ्यात्व-समं नान्यत्तनूभृताम् ॥34॥

सम्यग्दर्शनशुद्धा नारकतिर्यङ्नपुंसकस्त्रीत्वानि
दुष्कुलविकृताल्पायुर्दरिद्रतां च व्रजन्ति नाप्यव्रतिकाः ॥35॥

ओजस्तेजोविद्या-वीर्ययशोवृद्धिविजयविभवसनाथाः
माहाकुला महार्था मानवतिलकाः भवन्ति दर्शनपूताः ॥36॥

अष्टगुणपुष्टितुष्टा दृष्टिविशिष्टाः प्रकृष्टशोभाजुष्टाः
अमराप्सरसां परिषदि चिरं रमन्ते जिनेन्द्रभक्ताः स्वर्गे ॥37॥

नवनिधिसप्तद्वयरत्ना-धीशा: सर्व-भूमि-पतयश्चक्रम्
वर्तयितुं प्रभवन्ति स्पष्टदृश:, क्षत्रमौलिशेखरचरणा: ॥38॥

अमरासुरनरपतिभिर्यमधरपतिभिश्चनूतपादाम्भोजाः
दृष्ट्या सुनिश्चितार्था वृषचक्रधरा भवन्ति लोकशरण्याः ॥39॥

शिवमजरमरुजमक्षयमव्याबाधं विशोकभयशङ्कम्
काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनशरणाः ॥40॥

देवेन्द्रचक्रमहिमानममेयमानम्,
राजेन्द्रचक्रमवनीन्द्रशिरोर्चनीयम् ।
धर्मेन्द्रचक्रमधरीकृतसर्वलोकम्,
लब्ध्वा शिवं च जिनभक्तिरुपैति भव्यः ॥41॥

सम्यग्ज्ञान-अधिकार
अन्यूनमनतिरिक्तं याथातथ्यं विना च विपरीतात्
निःसन्देहं वेद यदाहुस्तज्ज्ञानमागमिनः ॥1॥

प्रथमानुयोगमर्थाख्यानं चरितं पुराणमपि पुण्यम्
बोधिसमाधिनिधानं बोधति बोधः समीचीनः ॥2॥
बोधिसमाधिनिधानं बोधति बोधः समीचीनः ॥2॥
लोकालोकविभक्तेर्युगपरिवृत्तेश्चतुर्गतीनां च
आदर्शमिव तथामतिरवैति करणानुयोगं च ॥3॥
आदर्शमिव तथामतिरवैति करणानुयोगं च ॥3॥
गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम्
चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ॥4॥
चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ॥4॥
जीवाजीवसुतत्त्वे पुण्यापुण्ये च बन्धमोक्षौ च
द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते ॥5॥

सम्यक-चारित्र-अधिकार
मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः
रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ॥47॥

रागद्वेषनिवृत्तेर्हिंसादिनिवर्तना कृता भवति
अनपेक्षितार्थवृत्तिः कः पुरुषः सेवते नृपतीन् ॥48॥

हिंसानृतचौर्येभ्यो, मैथुनसेवापरिग्रहाभ्यां च
पापप्रणालिकाभ्यो, विरति: संज्ञस्य चारित्रम् ॥49॥

सकलं विकलं चरणं, तत्सकलं सर्वसङ्गविरतानाम्
अनगाराणां विकलं, सागाराणां ससङ्गानाम् ॥50॥

गृहिणां त्रेधा तिष्ठत्यणु-गुण शिक्षाव्रतात्मकं चरणं
पञ्च-त्रि-चतुर्भेदं त्रयं यथासंख्यमाख्यातम् ॥51॥

अणुव्रत-अधिकार
प्राणातिपातवितथ व्याहारस्तेय काम मूर्च्छाभ्यः
स्थूलेभ्य: पापेभ्यो व्युपरमणमणुव्रतं भवति ॥52॥

सङ्कल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्वान्
न हिनस्ति यत्तदाहुः स्थूलवधाद्विरमणं निपुणाः ॥53॥

छेदनबन्धनपीडनमतिभारारोपणं व्यतीचाराः
आहारवारणापि च स्थूलवधाद् व्युपरतेः पञ्च ॥54॥

स्थूलमलीकं न वदति न परान् वादयति सत्यमपि विपदे
यत्तद्वदन्ति सन्तः स्थूलमृषावादवैरमणम् ॥55॥

परिवाद-रहोभ्याख्या-पैशून्यं कूटलेखकरणं च
न्यासापहारितापि च, व्यतिक्रमा: पञ्च सत्यस्य ॥56॥

निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसृष्टं
न हरति यन्न च दत्ते तदकृशचौर्य्यादुपारमणम् ॥57॥

चौरप्रयोगचौरार्थादानविलोपसदृशसन्मिश्राः
हीनाधिकविनिमानं पञ्चास्तेये व्यतीपाताः ॥58॥

न तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत्
सा परदारनिवृत्तिः स्वदारसन्तोषनामापि ॥59॥

अन्यविवाहाकरणानङ्गक्रीडाविटत्वविपुलतृषः
इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥60॥

धनधान्यादिग्रन्थं परिमाय ततोऽधिकेषु निःस्पृहता
परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥61॥

अतिवाहनातिसङ्ग्रह-विस्मयलोभातिभारवहनानि
परिमितपरिग्रहस्य च, विक्षेपा: पञ्च लक्ष्यन्ते ॥62॥

पञ्चाणुव्रतनिधयो, निरतिक्रमणा: फलन्ति सुरलोकम्
यत्रावधिरष्टगुणा, दिव्यशरीरं च लभ्यन्ते ॥63॥

मातङ्गो धनदेवश्च वारिषेणस्ततः परः
नीली जयश्च सम्प्राप्ताः पूजातिशयमुत्तमम् ॥64॥

धनश्रीसत्यघोषौ च, तापसारक्षकावपि
उपाख्येयास्तथा श्मश्रु-नवनीतो यथाक्रमम् ॥65॥

मद्यमांसमधुत्यागैः सहाणुव्रतपञ्चकम्
अष्टौ मूलगुणानाहुर्गृहिणां श्रमणोत्तमाः ॥66॥

गुणव्रत-अधिकार
दिग्व्रतमनर्थदण्ड, व्रतं च भोगोपभोग-परिमाणं
अनुवृंहणाद् गुणाना-माख्यान्ति गुणव्रतान्यार्या: ॥67॥

दिग्वलयं परिगणितं कृत्वातोऽहं बहिर्न यास्यामि
इति सङ्कल्पो दिग्व्रतमामृत्यणुपापविनिवृत्यै ॥68॥

मकराकरसरिदटवीगिरिजनपदयोजनानि मर्यादाः
प्राहुर्दिशां दशानां प्रतिसंहारे प्रसिद्धानि ॥69॥

अवधे-र्बहिरणुपाप-प्रतिविरतेर्दिग्व्रतानि धारयतां
पञ्च महाव्रतपरिणति-मणुव्रतानि प्रपद्यन्ते ॥70॥

प्रत्याख्यानतनुत्वान्, मन्दतराश्चरणमोहपरिणामा:
सत्त्वेन दुखधारा, महाव्रताय प्रकल्प्यन्ते ॥71॥

पञ्चानां पापानां हिंसादीनां मनोवचःकायैः
कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥72॥

ऊर्ध्वाधस्तात्तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम्
विस्मरणं दिग्विरतेरत्याशाः पञ्च मन्यन्ते ॥73॥

अभ्यन्तरं दिगवधेरपार्थिकेभ्यः सपापयोगेभ्यः
विरमणमनर्थदण्डव्रतं विदुर्व्रतधराग्रण्यः ॥74॥

पापोपदेशहिंसादानापध्यानदुःश्रुतीः पञ्च
प्राहुः प्रमादचर्यामनर्थदण्डानदण्डधराः ॥75॥

तिर्यक्क्लेशवणिज्याहिंसारम्भप्रलम्भनादीनाम्
कथाप्रसङ्गः प्रसवः स्मर्त्तव्यः पाप उपदेशः ॥76॥

परशुकृपाणखनित्र-ज्वलनायुध-श्रृङ्गिश्रृङ्खलादीनाम्
वधहेतूनां दानं हिंसादानं ब्रुवन्ति बुधाः ॥77॥

वधबन्धच्छेदादेर्द्वेषाद्रागाच्च परकलत्रादेः
आध्यानमपध्यानं शासति जिनशासने विशदा: ॥78॥

आरम्भसङ्गसाहस - मिथ्यात्वद्वेषरागमदमदनै:
चेत: कलुषयतां श्रुति-रवधीनां दु:श्रुतिर्भवति ॥79॥

क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदम्
सरणं सारणमपि च प्रमादचर्यां प्रभाषन्ते ॥80॥

कन्दर्पं कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्च
असमीक्ष्य चाधिकरणं व्यतीतयोऽनर्थदण्डकृद्विरतेः ॥81॥

अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम्
अर्थवतामप्यवधौ रागरतीनां तनूकृतये ॥82॥
अर्थवतामप्यवधौ रागरतीनां तनूकृतये ॥82॥
भुक्त्वा परिहातव्यो भोगो भुक्त्वा पुनश्च भोक्तव्यः
उपभोगोऽशनवसनप्रभृतिः पञ्चेन्द्रियो विषयः ॥83॥

त्रसहतिपरिहरणार्थं क्षौद्रं पिशितं प्रमादपरिहृतये
मद्यं च वर्जनीयं जिनचरणौ शरणमुपयातैः ॥84॥

अल्पफलबहुविघातान् मूलकमार्द्राणि शृङ्गवेराणि
नवनीतनिम्बकुसुमं कैतकमित्येवमवहेयम् ॥85॥

यदनिष्टं तद्व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात्
अभिसन्धिकृता विरतिर्विषयाद्योग्याद्व्रतं भवति ॥86॥

नियमो यमश्च विहितौ, द्वेधा भोगोपभोगसंहारात्
नियमः परिमितकालो, यावज्जीवं यमो ध्रियते ॥87॥

भोजनवाहनशयनस्नानपवित्राङ्गरागकुसुमेषु
ताम्बूलवसनभूषणमन्मथसङ्गीतगीतेषु ॥88॥
अद्य दिवा रजनी वा पक्षो मासस्तथर्तुरयनं वा
इति कालपरिच्छित्त्या प्रत्याख्यानं भवेन्नियमः ॥89॥

विषयविषतोऽनुपेक्षानुस्मृतिरतिलौल्यमतितृषाऽनुभवौ
भोगोपभोगपरिमा व्यतिक्रमाः पञ्च कथ्यन्ते ॥90॥

शिक्षाव्रत-अधिकार
देशावकाशिकं वा सामयिकं प्रोषधोपवासो वा
वैयावृत्यं शिक्षाव्रतानि चत्वारि शिष्टानि ॥91॥

देशावकाशिकं स्यात्कालपरिच्छेदनेन देशस्य
प्रत्यहमणुव्रतानां प्रतिसंहारो विशालस्य ॥92॥

गृहहारिग्रामाणां क्षेत्रनदीदावयोजनानां च
देशावकाशिकस्य स्मरन्ति सीम्नां तपोवृद्धाः ॥93॥

संवत्सरमृतुरयनं मासचतुर्मासपक्षमृक्षं च
देशावकाशिकस्य प्राहुः कालावधिं प्राज्ञाः ॥94॥

सीमान्तानां परतः स्थूलेतर पञ्चपापसंत्यागात्
देशावकाशिकेन च महाव्रतानि प्रसाध्यन्ते ॥95॥

प्रेषणशब्दानयनं रूपाभिव्यक्तिपुद्गलक्षेपौ
देशावकाशिकस्य व्यपदिश्यन्तेऽत्ययाः पञ्च ॥96॥

आसमयमुक्तिमुक्तं पञ्चाघानामशेषभावेन
सर्वत्र च सामयिकाः सामयिकं नाम शंसन्ति ॥97॥

मूर्धरूहमुष्टिवासोबन्धं पर्य्यंकबन्धनं चापि
स्थानमुपवेशनं वा समयं जानन्ति समयज्ञाः ॥98॥

एकान्ते सामयिकं निर्व्याक्षेपे वनेषु वास्तुषु च
चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधिया ॥99॥

व्यापारवैमनस्याद्विनिवृत्त्यामन्तरात्मविनिवृत्त्या
सामायिकं बध्नीयादुपवासे चैकभुक्ते वा ॥100॥

सामयिकं प्रतिदिवसं यथावदप्यनलसेन चेतव्यम्
व्रतपञ्चकपरिपूरणकारणमवधानयुक्तेन ॥101॥
व्रतपञ्चकपरिपूरणकारणमवधानयुक्तेन ॥101॥
सामयिके सारम्भाः परिग्रहा नैव सन्ति सर्वेऽपि
चेलोपसृष्टमुनिरिव गृही तदा याति यतिभावम् ॥102॥

शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधराः
सामयिकं प्रतिपन्ना अधिकुर्वीरन्नचलयोगाः ॥103॥

अशरणमशुभमनित्यं दुःखमनात्मानमावसामि भवम्
मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके ॥104॥

वाक्कायमानसानां दुःप्रणिधानान्यनादरास्मरणे
सामयिकस्यातिगमा व्यज्यन्ते पञ्च भावेन ॥105॥

पर्वण्यष्टम्यां च ज्ञातव्यः प्रोषधोपवासस्तु
चतुरभ्यवहार्य्याणां प्रत्याख्यानं सदेच्छाभिः ॥106॥

पञ्चानां पापानामलङ्क्रियारम्भगन्धपुष्पाणाम्
स्नानाञ्जननस्यानामुपवासे परिहृतिं कुर्य्यात् ॥107॥

धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान्
ज्ञानध्यानपरो वा भवतूपवसन्नतन्द्रालूः ॥108॥

चतुराहारविसर्जनमुपवासः प्रोषधः सकृद्भुक्तिः
स प्रोषधोपवासो यदुपोष्यारम्भमाचरति ॥109॥

ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे
यत्प्रोषधोपवासव्यतिलंघनपंचकं तदिदम् ॥110॥

दानं वैयावृत्त्यं धर्माय तपोधनाय गुणनिधये
अनपेक्षितोपचारोपक्रियमगृहाय विभवेन ॥111॥

व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात्
वैयावृत्त्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥112॥

नवपुण्यैः प्रतिपत्तिः सप्तगुणसमाहितेन शुद्धेन
अपसूनारम्भाणामार्याणामिष्यते दानम् ॥113॥

गृहकर्मणापि निचितं कर्मविमार्ष्टि खलु गृहविमुक्तानाम्
अतिथीनां प्रतिपूजा रुधिरमलं धावते वारि ॥114॥

उच्चैर्गोत्रं प्रणतेर्भोगो, दानादुपासनात्पूजा
भक्तेः सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु ॥115॥

क्षितिगतमिव वटबीजं पात्रगतं दानमल्पमपि काले
फलतिच्छायाविभवं बहुफलमिष्टं शरीरभृताम् ॥116॥

आहारौषधयोरप्युपकरणावासयोश्च दानेन
वैयावृत्त्यं ब्रुवते चतुरात्मत्वेन चतुरस्राः ॥117॥

श्रीषेणवृषभसेने कौण्डेशः सूकरश्च दृष्टान्ताः
वैयावृत्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥118॥

देवाधिदेवचरणे परिचरणं सर्वदुःखनिर्हरणम्
कामदुहि कामदाहिनि परिचिनुयादादृतो नित्यम् ॥119॥

अर्हच्चरणसपर्यामहानुभावं महात्मनामवदत्
भेकः प्रमोदमत्तः कुसुमेनैकेन राजगृहे ॥120॥

हरितपिधाननिधाने, ह्यनादरास्मरणमत्सरत्वानि
वैयावृत्यस्यैते, व्यतिक्रमा: पञ्च कथ्यन्ते ॥121॥

सल्लेखना-अधिकार
उपसर्गे दुर्भिक्षे जरसि रुजायां च निःप्रतिकारे
धर्माय तनुविमोचनमाहुः सल्लेखनामार्याः ॥122॥

अन्त:क्रियाधिकरणं, तप: फलं सकलदर्शिन: स्तुवते
तस्माद्यावद्विभवं समाधिमरणे प्रयतितव्यम् ॥123॥

स्नेहं वैरं सङ्गं, परिग्रहं चापहाय-शुद्धमना:
स्वजनं परिजनमपि च, क्षान्त्वा क्षमयेत्प्रियैर्वचनै: ॥124॥
आलोच्य सर्वमेन:, कृतकारितमनुमतं च निर्व्याजम्
आरोपयेन्महाव्रत-मामरणस्थायि नि:शेषम् ॥125॥

शोकं भयमवसादं, क्लेदं कालुष्यमरतिमपि हित्वा
सत्त्वोत्साहमुदीर्य च, मन: प्रसाद्यं श्रुतैरमृतै: ॥126॥

आहारं परिहाप्य, क्रमश: स्निग्धं-विवर्द्धयेत्पानम्
स्निग्धं च हापयित्वा, खरपानं पूरयेत्क्रमश: ॥127॥

खरपानहापनामपि, कृत्वा कृत्वोपवासमपि शक्त्या
पञ्चनमस्कारमनास्तनुं त्यजेत्सर्व-यत्नेन ॥128॥

जीवितमरणाशंसे, भयमित्र-स्मृतिनिदाननामान:
सल्लेखनातिचारा:, पञ्च जिनेन्द्रै: समादिष्टा: ॥129॥

नि:श्रेयसमभ्युदयं, निस्तीरं दुस्तरं सुखाम्बुनिधिम्
नि: पिबति पीतधर्मा, सर्वैर्दु:खैरनालीढ: ॥130॥

जन्मजरामयमरणै: शोकैर्दु:खैर्भयैश्च परिमुक्तम्
निर्वाणं शुद्धसुखं, नि:श्रेयसमिष्यते नित्यम् ॥131॥

विद्यादर्शन-शक्ति-स्वास्थ्यप्रह्लादतृप्तिशुद्धियुज:
निरतिशया निरवधयो, नि:श्रेयसमावसन्ति सुखम् ॥132॥

काले कल्पशतेऽपि च, गते शिवानां न विक्रिया लक्ष्या
उत्पातोऽपि यदि स्यात्, त्रिलोकसम्भ्रान्तिकरणपटु: ॥133॥

नि:श्रेयसमधिपन्ना-स्त्रैलोक्यशिखामणिश्रियं दधते
निष्किट्टिकालिकाच्छवि-चामीकरभासुरात्मान: ॥134॥

पूजार्थाज्ञैश्वर्यै:, बलपरिजनकामभोगभूयिष्ठै:
अतिशयितभुवनमद्भुत-मभ्युदयं फलति सद्धर्म: ॥135॥

श्रावकपद-अधिकार
श्रावकपदानि देवै-रेकादश देशितानि येषु खलु
स्वगुणा: पूर्वगुणै: सह, सन्तिष्ठन्ते क्रमविवृद्धा: ॥136॥

सम्यग्दर्शनशुद्ध:, संसारशरीर-भोगनिर्विण्ण:
पञ्चगुरुचरणशरणो, दर्शनिकस्तत्त्वपथगृह्य: ॥137॥

निरतिक्रमणमणुव्रत-पञ्चकमपि शीलसप्तकं चापि
धारयते नि:शल्यो, योऽसौ व्रतिनां मतो व्रतिक: ॥138॥

चतुरावर्तत्रितय-श्चतु:प्रणाम: स्थितो यथाजात:
सामयिको द्विनिषद्य-स्त्रियोगशुद्धस्त्रिसन्ध्यमभिवन्दी ॥139॥

पर्वदिनेषु चतुर्ष्वपि, मासे मासे स्वशक्तिमनिगुह्य
प्रोषधनियमविधायी, प्रणधिपर: प्रोषधानशन: ॥140॥

मूलफलशाकशाखा - करीरकन्दप्रसूनबीजानि
नामानि योऽत्ति सोऽयं, सचित्तविरतो दयामूर्ति: ॥141॥

अन्नं पानं खाद्यं लेह्यं नाश्नाति यो विभावर्याम्
स च रात्रिभुक्तिविरत: सत्त्वेष्वनुकम्पमानमना: ॥142॥

मलबीजं मलयोनिं, गलन्मलं पूतिगन्धि बीभत्सं
पश्यन्नङ्गमनङ्गा-द्विरमति यो ब्रह्मचारी स: ॥143॥

सेवाकृषिवाणिज्य-प्रमुखादारम्भतो व्युपरमति
प्राणातिपातहेतोर्योऽसावारम्भ-विनिवृत्त: ॥144॥

बाह्येषु दशसु वस्तुषु, ममत्वमुत्सृज्य निर्ममत्वरत:
स्वस्थ: सन्तोषपर:, परिचितपरिग्रहाद्विरत: ॥145॥

अनुमतिरारम्भे वा, परिग्रहे ऐहिकेषु कर्मसु वा
नास्ति खलु यस्य समधी-रनुमतिविरत: स मन्तव्य: ॥146॥

गृहतो मुनिवनमित्वा, गुरूपकण्ठे व्रतानि परिगृह्य
भैक्ष्याशनस्तपस्य-न्नुत्कृष्टश्चेलखण्डधर: ॥147॥

पाप-मरातिर्धर्मो, बन्धुर्जीवस्य चेति निश्चिन्वन्
समयं यदि जानीते, श्रेयोज्ञाता ध्रुवं भवति ॥148॥

येन स्वयं वीतकलंकविद्या-दृष्टिक्रिया-रत्नकरण्डभावम्
नीतस्तमायाति-पतीच्छयेव, सर्वार्थसिद्धिस्त्रिषु-विष्टपेषु ॥149॥

सुखयतु सुखभूमि: कामिनं कामिनीव,
सुतमिव जननी मां शुद्धशीला भुनत्तु
कुलमिव गुणभूषा, कन्यका सम्पुनीतात्-
जिनपतिपदपद्म-प्रेक्षिणी दृष्टिलक्ष्मी: ॥150॥

पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर

shastra/ratnakaranda-shraavakaachaara.md सुधारें।
श्रुतधारा · रत्नकरण्ड श्रावकाचार — मूल पाठ · स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं