श्रुतधारा
॥ श्री ॥

परीक्षामुख

माणिक्यनन्दि · संस्कृतम् · २०९ पद्य · ~३१ मिनट

परिच्छेद-1

प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः ।
इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥
स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् ॥1॥
हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् ॥2॥
तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत् ॥3॥
अनिश्चितोऽपूर्वार्थ: ॥4॥
दृष्टोऽपि समारोपात्तादृक् ॥5॥
स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय: ॥6॥
अर्थस्येव तदुन्मुखतया ॥7॥
घटमहमात्मना वेद्मि ॥8॥
कर्मवत्कर्तृकरणक्रियाप्रतीते: ॥9॥
शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् ॥10॥
को वा तत्प्रतिभासिनमर्थध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥11॥
प्रदीपवत् ॥12॥
तत्प्रामाण्यं स्वत: परश्च ॥13॥

परिच्छेद-2

तद्द्वेधा ॥1॥
प्रत्यक्षेतरभेदात् ॥2॥
विशदं प्रत्यक्षम् ॥3॥
प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् ॥4॥
इन्द्रियानिन्द्रियानिमित्तं देशत: सांव्यवहारिकम् ॥5॥
नार्थालोकौ कारणं परिच्छेद्यत्वात्तमोवत् ॥6॥
तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवन्नक्तंचर ज्ञानवच्च ॥7॥
अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ॥8॥
स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति ॥9॥
कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचार: ॥10॥
सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियशेषतो मुख्यम् ॥11॥
सावरणत्वे करणजन्यत्वे च प्रतिबंधसम्भवात् ॥12॥

परिच्छेद-3

परोक्षमितरत् ॥1॥
प्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागम भेदम् ॥2॥
संस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिः ॥3॥
स देवदत्तो यथा ॥4॥
दर्शनस्मरणकारकं सङ्कलनं प्रत्यभिज्ञानं, तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि ॥5॥
यथा स एवायं देवदत्तः, गोसदृशो गवयः, गोविलक्षणो महिषः, इदमस्माद् दूरम्, वृक्षोऽयमित्यादि ॥6॥
उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥7॥
इदमस्मिन्सत्येव भवत्यसति तु न भवत्येव ॥8॥
यथाऽग्नावेव धूमस्तदभावे न भवत्येवेति च ॥9॥
साधनात् साध्यविज्ञानमनुमानम् ॥10॥
साध्याविनाभावित्वेन निश्चितो हेतुः ॥11॥
सहक्रमभावनियमोऽविनाभावः ॥12॥
सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः ॥13॥
पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥14॥
तर्कात्तन्निर्णयः ॥15॥
इष्टमबाधितमसिद्धं साध्यम् ॥16॥
संदिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथास्यादित्यसिद्धपदम् ॥17॥
अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भूदितीष्टाबाधितवचनम् ॥18॥
न चासिद्धवदिष्टं प्रतिवादिनः ॥19॥
प्रत्यायनाय हीच्छा वक्तुरेव ॥20॥
साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी ॥21॥
पक्ष इति यावत् ॥22॥
प्रसिद्धो धर्मी ॥23॥
विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये ॥24॥
अस्ति सर्वज्ञो नास्ति खरविषाणम् ॥25॥
प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥26॥
अग्निमानयं देशः परिणामी शब्द इति यथा ॥27॥
व्याप्तौ तु साध्यं धर्म एव ॥28॥
अन्यथा तदघटनात् ॥29॥
साध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ॥30॥
साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥31॥
को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ॥32॥
एतद्-द्वयमेवानुमानाङ्गं नोदाहरणम् ॥33॥
न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्त हेतोरेव व्यापारात् ॥34॥
तदविनाभावनिश्चयार्थं वा विपक्षे बाधकप्रमाणबलादेव तत्सिद्धेः ॥35॥
व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्याद् दृष्टान्तान्तरापेक्षणात् ॥36॥
नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव तत्स्मृतेः ॥37॥
तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति ॥38॥
कुतोऽन्यथोपनयनिगमने ॥39॥
न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् ॥40॥
समर्थन वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् ॥41॥
बालव्युत्पत्त्यर्थं तत्त्रायोपगमे शास्त्रा एवासौ न वादेऽनुपयोगात् ॥42॥
दृष्टान्तो द्वेधा अन्वयव्यतिरेकभेदात् ॥43॥
साध्यव्याप्तं साधनं यत्रा प्रदर्श्यते सोऽन्वयदृष्टान्तः ॥44॥
साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥45॥
हेतोरुपसंहार उपनयः ॥46॥
प्रतिज्ञायास्तु निगमनम् ॥47॥
तदनुमानं द्वेधा ॥48॥
स्वार्थपरार्थभेदात् ॥49॥
स्वार्थमुक्तलक्षणम् ॥50॥
परार्थं तु तदर्थपरामर्शिवचनाज्जातम् ॥51॥
तद्वचनमपि तद्धेतुत्वात् ॥52॥
स हेतुर्द्वेधोपलब्ध्यनुपलब्धिभेदात् ॥53॥
उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च ॥54॥
अविरुद्धोपलब्धिर्विधौ षोढा-व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् ॥55॥
रसादेकैंची रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित् कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥56॥
न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ॥57॥
भाव्यतीतयोर्मरणजाग्रद्बोधयोरपि नारिष्टोद्बोधौ प्रतिहेतुत्वम् ॥58॥
तद्-व्यापाराश्रितं हि तद्भावभावित्वम् ॥59॥
सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च ॥60॥
परिणामी शब्दः, कृतकत्वात् । य एवं स एवं दृष्टो यथा घटः । कृतकश्चायं, तस्मात्परिणामीति । यस्तु न परिणामी, स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः। कृतकश्चायम्, तस्मात्परिणामीति ॥61॥
अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः ॥62॥
अस्त्यत्रच्छाया छत्रात् ॥63॥
उदेष्यति शकटं कृत्तिकोदयात् ॥64॥
उद्गाद् भरणिः प्राक्तत एव ॥65॥
अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥66॥
विरुद्धतदुपलब्धि: प्रतिषेधे तथा ॥67॥
नास्त्यत्र शीतस्पर्श औष्ण्यात् ॥68॥
नास्त्यत्र शीतस्पर्शो धूमात् ॥69॥
नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥70॥
नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥71॥
नोद्गाद् भरणि: मुहूर्तात्परं पुष्योदयात् ॥72॥
नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनात् ॥73॥
अविरुद्धानुपलब्धि: प्रतिषेधे सप्तधा स्वभाव व्यापक कार्य कारण पूर्वोत्तर सहचरानुपलम्भभेदात् ॥77॥
नास्त्यत्र भूतले घटोऽनुपलब्धेः ॥75॥
नास्त्यत्र शिंशपा वृक्षानुपलब्धेः ॥76॥
नास्त्यत्राप्रतिबद्ध-सामर्थ्योऽग्निर्धूमानुपलब्धेः ॥77॥
नास्त्यत्र धूमोऽनग्नेः ॥78॥
न भविष्यति मुहूर्तान्ते शकटं कृतिकोदयानुपलब्धेः ॥79॥
नोद्गाद् भरणि: मुहूर्तात्प्राक् तत एव ॥80॥
नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः ॥81॥
विरुद्धानुपलब्धिर्विधौ त्रेधा विरुद्ध कार्यकारणस्वभावानुपलब्धिभेदात् ॥82॥
यथास्मिन्प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः ॥83॥
अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥84॥
अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥85॥
परम्पराया संभवत्साधनमत्रैवान्तर्भावनीयम् ॥86॥
अभूदत्र चक्रे शिवकः स्थासात् ॥87॥
कार्यकार्यमविरुद्धकार्योपलब्धौ ॥88॥
नास्त्यत्र गुहायां मृगक्रीडनं, मृगारिसंशब्दनात् । कारणविरुद्धकार्यं विरुद्धकार्योपलब्धौ यथा ॥89॥
व्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥90॥
अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेर्धूमवत्त्वान्यथानुपपत्तेर्वा ॥91॥
हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते॥ 92॥
तावता च साध्यसिद्धिः ॥93॥
तेन पक्षस्तदाधार सूचनायोक्तः ॥94॥
आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥95॥
सहजयोग्यतासंकेतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः ॥96॥
यथा मेर्वादयः सन्ति ॥97॥

परिच्छेद-4

सामान्यविशेषात्मा तदर्थो विषयः ॥1॥
अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्ति स्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च ॥2॥
सामान्यं द्वेधा तिर्यगूर्ध्वताभेदात् ॥3॥
सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत् ॥4॥
परापरविर्वतव्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिषु ॥5॥
विशेषश्च ॥6॥
पर्यायव्यतिरेकभेदात् ॥7॥
एकस्मिन्द्रव्ये क्रमभाविन: परिणाम: पर्यायाः आत्मनि हर्षविषादादिवत् ॥8॥
अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥१॥

परिच्छेद-5

अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् ॥1॥
प्रमाणादभिन्नं भिन्नं च ॥2॥
य: प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षते चेति प्रतीतेः ॥3॥

परिच्छेद-6

ततोऽन्यत्तदाभासम् ॥1॥
अस्वसंविदित-गृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः ॥2॥
स्वविषयोपदर्शकत्वाभावात्॥3॥
पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् ॥4॥
चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च ॥5॥
अवैशद्यै प्रत्यक्षं तदाभासं, बौद्धस्याकस्माद् धूमदर्शनाद् वह्नि विज्ञानवत् ॥6॥
वैशद्यैऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥7॥
अतस्मिस्तदिति ज्ञानं स्मरणाभासं, जिनदत्ते स देवदत्तो यथा ॥8॥
सदृशे तदेवेदं तस्मिन्नेव तेन सदृशम्, यमलकवदित्यादि प्रत्यभिज्ञानाभासम् ॥9॥
असम्बद्धे तज्ज्ञानं तर्काभासम् ॥10॥
इदमनुमानाभासम् ॥11॥
तत्रानिष्टादिः पक्षाभासः ॥12॥
अनिष्टो मीमांसकस्यानित्यः शब्दः ॥13॥
सिद्धः श्रावणः शब्दः ॥14॥
बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥15॥
तत्र प्रत्यक्षबाधितो यथा, अनुष्णोऽग्नि द्रर्व्यत्वाजलवत् ॥16॥
अपरिणामी शब्दः कृतकत्वात् ॥17॥
प्रेत्यासुखदो धर्मः पुरुषाश्रितत्वादधर्मवत् ॥18॥
शुचि नरशिर: कपालं प्राण्यंगत्वाच्छंखशुक्तिवत् ॥19॥
माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्-प्रसिद्धबन्ध्यावत्॥20॥
हेत्वाभासा असिद्धविरुद्धानैकान्तिकाकिञ्चित्कराः ॥21॥
असत्सत्तानिश्चयोऽसिद्धः ॥22॥
अविद्यमानसत्ताकः परिणामी शब्दः चाक्षुषत्वात् ॥23॥
स्वरूपेणासत्वात् ॥24॥
अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्रधूमात् ॥25॥
तस्य वाष्पादिभावेन भूतसंघाते सन्देहात् ॥26॥
सांख्यम्प्रति परिणामी शब्दः कृतकत्वात् ॥27॥
तेनाज्ञातत्वात् ॥28॥
विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् ॥29॥
विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥30॥
निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत् ॥31॥
आकाशे नित्येऽप्यस्य निश्चयात् ॥32॥
शंकितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् ॥33॥
सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥34॥
सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः ॥35॥
सिद्धः श्रावणः शब्दः शब्दत्वात् ॥36॥
किञ्चिदकरणात् ॥37॥
यथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कर्तुमशक्यत्वात् ॥38॥
लक्षणे एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैवदुष्टत्वात् ॥39॥
दृष्टान्ताभासा अन्वयेऽसिद्धसाधनोभयाः ॥40॥
अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ॥41॥
विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् ॥42॥
विद्युदादिनाऽति प्रसङ्गेत् ॥43॥
व्यतिरेकेऽसिद्धतद्व्यतिरेका, परमाण्विन्द्रिय सुखाकाशवत् ॥44॥
विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयम् ॥45॥
बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता ॥46॥
अग्निमानयं प्रदेशो धूमवत्वाद्यदिथं तदित्थं यथा महानसः ॥47॥
धूमवाँश्चायम् ॥48॥
तस्मादग्निमान् धूमवान् चायम् ॥49॥
स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥50॥
रागद्वेषमोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् ॥51॥
यथा नद्यास्तीरे मोदकराशयः सन्ति, धावध्वं माणवकाः ॥52॥
अंगुल्यग्रे हस्तियूथशतमास्ते इति च ॥53॥
विसंवादात् ॥54॥
प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥55॥
लौकायतिकस्य प्रत्यक्षत: परलोकादिनिषेधस्य परबुद्धया देश्चासिद्धेरतद्विषयत्वात् ॥56॥
सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोप मानार्थापत्याभावैरेकैकाधिकैः व्याप्तिवत् ॥57॥
अनुमानादेरतद्विषयत्वे प्रमाणान्तरत्वम् ॥58॥
तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वमप्रमाणस्या व्यवस्थापकत्वात् ॥59॥
प्रतिभासस्य च भेदकत्वात् ॥60॥
विषयाभासः सामान्यं विशेषो द्वयं वा स्वतन्त्रम् ॥61॥
तथाऽप्रतिभासनात् कार्याकरणाच्च ॥62॥
समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥63॥
परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥64॥
स्वयमसमर्थस्याकारकत्वात् पूर्ववत् ॥65॥
फलाभास: प्रमाणादभिन्न भिन्नमेव वा ॥66॥
अभेदे तद्व्यवहारानुपपत्तेः ॥67॥
व्यावृत्त्यापि न तत्कल्पना फलान्तराद् व्यावृत्याऽफलत्व प्रसंगात् ॥68॥
प्रमाणान्तरात् व्यावृत्यावाप्रमाणत्वस्य ॥69॥
तस्माद्वास्तवो भेदः ॥70॥
भेदेत्वात्मान्तरवत्तदनुपपत्तेः ॥71॥
समवायेऽति प्रसंगः ॥72॥
प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥73॥
अन्य ग्रन्थों में नयादि तत्त्व
परीक्षामुखमादर्शी, हेयोपादेयतत्त्वयोः ।
संविदे मादृशो बालः, परीक्षादक्षवद् व्यधाम ॥
पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर shastra/parikshaamukha.md सुधारें।