श्रुतधारा
॥ श्री ॥

युक्त्यनुशासन

आ. समन्तभद्र · संस्कृतम् · ६४ पद्य · ~१० मिनट

कीर्त्या महत्या भुवि वर्द्धमानं
त्वां वर्द्धमानं स्तुतिगोचरत्वम् ।
निनीष्व: स्मो वयमद्य वीरं
विशीर्ण-दोषाऽऽशय-पाश-बंधनम् ॥1॥
याथात्म्यमुल्लंघ्य गुणोदयाऽऽख्या
लोके स्तुतिर्भूरि गुणोदधेस्ते ।
अणिष्ठमप्यंशमशक्नुवंतो
वक्तुं जिन ! त्वां किमिव स्तुयाम ॥2॥
तथाऽपि वैय्मात्यमुपेप्य भक्त्या
स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः ।
इष्टे प्रमेयेऽपि यथास्वशक्ति
किंनोत्सहंते पुरुषा: क्रियाभि: ॥3॥
त्वं शुद्धि-शक्त्योरुदस्य काष्ठां
तुला-व्यतीतां जिन ! शांतिरूपाम् ।
अवापिथ ब्रह्म-पथस्य नेता
महानिनीयत् प्रतिवक्तुमीशा: ॥4॥
काल: कलिर्वा कलुषाऽऽशयो वा
श्रोतुः प्रवक्तुर्वचनाऽनयो वा ।
त्वच्छासनैकाधिपतित्व-लक्ष्मी-
प्रभुत्व-शक्तेरपवाद-हेतुः ॥5॥
दया-दम-त्याग-समाधि-निष्ठं
नय-प्रमाण-प्रकृताऽऽञ्जसार्थम् ।
अधृष्यमन्यैरखिलै: प्रवादै-
र्जिन ! त्वदीयं मतमद्वितीयम् ॥6॥
अभेद-भेदात्मकमर्थतत्त्वं
तव स्वतंत्राऽंयतरख-पुष्पम् ।
अवृत्तिमत्त्वात्समवाय-वृत्ते:
संसर्गहाने: सकलाऽर्थ-हानि: ॥7॥
भावेषु नित्येषु विकारहाने:
न कारकव्यापृति-कार्य-युक्ति: ।
न बन्धभोगौ न च तद्विमोक्ष:
समन्तदोषं मतमन्यदीयम्‌ ॥8॥
अहेतुकत्वं-प्रथित: स्वभाव-
स्तस्मिन्‌ क्रियाकारकविभ्रम: स्यात्‌ ।
आबालसिद्धेर्विविधार्थसिद्धि-
र्वादान्तरं किं तदसूयतां ते ॥9॥
येषामवक्तव्यमिहात्मतत्त्व
देहादनन्यत्वपृथसम्यक्त्वकक्लृप्ते: ।
तेषां ज्ञतत्त्वेऽनवधार्यतत्त्वे
का बंधमोक्षस्थितिरप्रमेये ॥10॥
हेतुर्न दृष्टोऽत्र न चाऽप्यदृष्टो
योऽयं प्रवाद: क्षणिकात्मवाद: ।
न ध्वस्तमन्यत्र भवे द्वितीये
संतानभिंने न हि वासनाऽस्ति ॥11॥
तथा न तत्कारण-कार्य-भावो
निरवन्या: केन समानरूपा: ।
असत्खपुष्पं न हि हेत्वपेक्षं
दृष्टं न सिद्धयत्युभयोरसिद्धम् ॥12॥
नैवाऽस्ति हेतु: क्षणिकात्मवादे
न सन्नसन्वा विभवादकस्मात् ।
नाशोदयैकक्षणता च दृष्टा संतान-
भिन्न-क्षणयोरभावात् ॥13॥
कृत-प्रणाशाऽकृत कर्मभोगौ
स्यातामसञ्चेतितकर्म च स्यात् ।
आकस्मिकेऽर्थे प्रलय स्वभावे
मार्गो न युक्तो वधकश्च न स्यात् ॥14॥
न बंध-मोक्षौ क्षणिकैक-सस्थौ
न संवृति: साऽपि मृषा-स्वभावा ।
मुख्यादृते गौण-विधिर्न दृष्टो
विभ्रांत-दृष्टिस्तव दृष्टितोऽन्या ॥15॥
प्रतिक्षणं भङ्गिषु तत्पृथक्त्वा-
न्न मातृघाती स्व-पति: स्व-जाया ।
दत्त-ग्रहो नाऽधिगत-स्मृतिर्न न
क्त्वार्थ-सत्यं न कुलं न जाति: ॥16॥
न शास्तृशिष्यादिविधिव्यवस्था,
विकल्पबुद्धिर्वितथाऽखिला चेत् ।
अतत्त्वतत्त्वादिविकल्पमोहे,
निमज्जतां वीतविकल्पधी: का ? ॥17॥
अनर्थिका साधनसाध्यधीश्चेद्,
विज्ञानमात्रस्य न हेतुसिद्धि: ।
अथार्थवत्त्वं व्यभिचारदोषो,
न योगिगम्यं परवादिसिद्धम् ॥18॥
तत्त्वं विशुद्धं सकलैर्विकल्पै-
र्विश्वाऽभिलाखापाऽऽस्पदतामतीतम् ।
न स्वस्य वेद्यं न च तन्निगद्यं
सुषुप्त्यवस्थं भवदुक्तिबाह्यम् ॥19॥
मूकात्म-संवेद्यवदात्मवेद्यं-
तन्म्लिष्ट-भाषा-प्रतिम-प्रलापम् ।
अनङ्ग-संज्ञं तदवेद्यमन्यै:
स्यात्त्वद᳭द्विषां वाच्यमवाच्यतत्त्वम् ॥20॥
अशासदञ्जांसि वचांसि शास्ता
शिष्याश्च शिष्टा वचनैर्न ते तै: ।
अहो इदं दुर्गतमं तमोऽन्यत्
त्वयाविना श्रायसमार्य ! किं तत् ॥21॥
प्रत्यक्षबुद्धि: क्रमते न यत्र
तल्लिंग-गम्यं न तदर्थ-लिंगम् ।
वाचो न वा तद्विषयेण योग: का तद्गति: ?
कष्टमशृण्वतां ते ॥22॥
रागाद्यविद्याऽनल-दीपनं च
विमोक्ष-विद्याऽमृत-शासनं च ।
न भिद्यते संवृति-वादि-वाक्यं
भवत्प्रतीपं परमार्थ शून्यम् ॥23॥
विद्याप्रसूत्यैकिल शील्यमाना
भवत्यविद्या गुरुणोपदिष्टा ।
अहो त्वदोयोक्त्यनभिज्ञमोहो,
यंजन्मने यत्तदजन्मने तत् ॥24॥
अभावमात्रं परमार्थवृत्ते:
सा संवृति: सर्व विशेषशून्य ।
तस्या विशेषौ किल बंधमोक्षौ
हेत्वामनेति त्वदनाथवाक्यम् ॥25॥
व्यतीत-सामान्य-विशेष-भावाद्
विश्वाऽभिलापाऽर्थ-विकल्प-शून्यम् ।
ख पुष्पवत्स्वादसदेव तत्त्वं
प्रबुद्धतत्त्वाद्भवत: परेषाम् ॥26॥
अतत्स्वभावेऽप्यनयोरुपायाद᳭-
गतिर्भवेत्तौ वचनीय-गम्यौ ।
संबंधिनौ चेन्न विरोधि दृष्टं
वाच्यं यथार्थं न च दूषणं तत् ॥27॥
उपेयतत्त्वाऽनभिलाप्यताव,
दुपायतत्त्वाऽनभिलाप्यता स्यात् ।
अशेषतत्त्वाऽनभिलाप्यतायां,
द्विषां भवद्युक्त्यभिलाप्यताया: ॥28॥
अवाच्यमित्यत्र च वाच्यभावा-
दवाच्यमेवेत्ययथाप्रतिज्ञम् ।
स्वरूपतश्चेत्पररूपवाचि
स्व-रूपवाचीति वचो विरुद्धम् ॥29॥
सत्याऽनृतं वाऽप्यनृताऽनृतं
वाऽप्यस्तीह किं वस्त्वतिशायनेन ।
युक्तं प्रतिद्वन्द्वय्नुबंधि-मिश्रं
न वस्तु तादृक् त्वदृते जिनेदृक् ॥30॥
सहक्रमाद्वा विषयाऽल्प-भूरि-
भेदेऽनृतं भेदि न चाऽऽत्मभेदात् ।
आत्मांतरं स्याद्भिदुरं समं च
स्याच्याऽनृतात्माऽनभिलाप्यता च ॥31॥
न सच्च नाऽसच्च न दृष्टमेक-
मात्मांतरं सर्व-निषेध-गम्यम् ।
दृष्ठं विमिश्रं तदुपाधि-भेदात्
स्वप्नेऽपिनैतत्त्वदृषे: परेषाम् ॥32॥
प्रत्यक्ष-निर्देशवदप्यसिद्धम्-
ऽकल्पकं ज्ञापयितुं ह्यशक्यम् ।
विना च सिद्धेर्न च लक्षणार्थो
न तावकद्वेषिणि वीर ! सत्यम् ॥33॥
कालांतरस्थे क्षणिके ध्रुवे वा-
ऽपृथक्पृथक᳭त्वाऽवचनीयतायाम् ।
विकारहानेर्न च कर्तृ कार्ये
वृथा श्रमोऽयं जिन ! विद्विषां ते ॥34॥
मद्याङ्गवद्भूत-समागमे ज्ञः
शक्त्यंतर-व्यक्तिरदैव-सृष्टि: ।
इत्यात्म-शिश्नोदर-पुष्टि-तुष्टै-
र्निर्ह्रीभयैर्हा ! मृदव: प्रलब्धा: ॥35॥
दृष्टेऽविशिष्टे जननादि हेतौ
विशिष्टता का प्रतिसत्त्वमेषाम् ।
स्वभावत: किं न परस्य सिद्धि
रतावकानामपि हा ! प्रपात: ॥36॥
स्वच्छंदवृत्तेर्जगत: स्वभावात्-
उच्चैरनाचारपथेष्वदोषम् ।
निर्घुष्य दीक्षासममुक्तिमाना-
स्त्वद᳭दृष्टि बाह्या बत ! विभ्रमंति ॥37॥
प्रवृत्तिरक्तै: शमतुष्टिरिक्तै-
रूपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा ।
प्रवृत्तितः शांतिरपि प्ररूढं
तम: परेषां तव सुप्रभातम् ॥38॥
शीर्षोपहारादि भिरात्मदुःखै-
र्देवान᳭किलाऽऽराध्य सुखाभिगृद्धा: ।
सिद्धयंति दोषाऽपचयाऽनपेक्षा-
युक्तं च तेषां त्वमृषिर्न येषाम् ॥39॥
सामान्यनिष्ठा विविधा विशेषा
पदं विशेषांतर पक्षपाति ।
अंतर्विशेषांतर र्वृत्तितोऽन्यत᳭
समानभावं नयते विशेषम् ॥40॥
यदेवकारोपहितं पदं तद᳭-
अस्वार्थत: स्वार्थमवच्छिनत्ति ।
पर्यायसामान्यविशेष सर्वं
पदार्थहानिश्च विरोधिवत्स्यात् ॥41॥
अनुक्ततुल्यं यदनेवकारं
व्यावृत्यभावान्नियमद्वयेऽपि ।
पर्यायभावेऽन्यतरप्रयोग-
स्तत्सर्वमन्यच्युतमात्महीनम् ॥42॥
विरोधि चाऽभेद्यविशेषभावात्-
तद᳭द्योतन: स्याद᳭गुणतो निपात: ।
विपाद्यसंधिश्च तथाऽङ्गभावा-
दवाच्यता श्रायसलोपहेतु: ॥43॥
तथा प्रतिज्ञाऽऽशयतोऽप्रयोग:
सामर्थ्यतो वा प्रतिषेधयुक्ति: ।
इति त्वदीया जिननाग ! दृष्टिः
पराऽप्रधृष्या परधर्षिणी च ॥44॥
विधिर्निषेधोऽनभिलाप्यता च
त्रिरेकशस्त्रिर्द्विश एक एव ।
त्रयो विकल्पास्तव सप्तधाऽमी
स्याच्छब्दनेया: सकलेऽर्थभेदे ॥45॥
स्यादित्यपि स्याद᳭गुणमुख्यकल्पै-
कांतोयथोपाधिविशेषवीक्ष्य: ।
तत्त्वं त्वनेकांतमशेष रूपं
द्विधा भवार्थव्यवहारवत्त्वात् ॥46॥
न द्रव्यपर्याय पृथग᳭व्यवस्था
द्वैयात्म्यमेकाऽर्पणया विरुद्धम् ।
धर्मी च धर्मश्च मिथस्त्रिधेमौ
न सर्वथा तेऽभिमतौ विरुद्धो ॥47॥
दृष्टाऽऽगमाभ्यामविरुद्धमर्थ-
प्ररूपणं युक्त्यनुशासनं ते ।
प्रतिक्षणं स्थित्युदयव्ययात्म-
तत्त्वव्यवस्थं सदिहाऽर्थरूपम् ॥48॥
नानात्मतामप्रजहत्तदेक-
मेकात्मतामप्रजहच्च नाना ।
अङ्गांङ्गिभावात्तव वस्तु तद्यत्
क्रमेण वाग्वाच्यमनन्तरूपम् ॥49॥
मिथोऽनपेक्षा: पुरुषार्थहेतु-
र्नांशा न चांशी पृथगस्ति तेभ्य: ।
परस्परेक्षा: पुरुषार्थहेतु-
र्दृष्टा नयास्तद्वदसिक्रियायाम् ॥50॥
एकांतधर्माऽभिनिवेश मूला-
रागादयोऽहंकृतिजा जनानाम् ।
एकांत हानाच्च स यत्तदेव
स्वाभाविकत्वाच्च समं मनस्ते ॥51॥
प्रमुच्यते च प्रतिपक्षदूषी
जिन: त्वदीयै: पटुसिंहनादै: ।
एकस्य नानात्मतया ज्ञवृत्ते-
स्तौ बंधमोक्षौ स्वमतादबाह्यौ ॥52॥
आत्मान्तराऽभावसमानता न
वागास्पदं स्वाऽऽश्रयभेदहीना ।
भावस्य सामान्यविशेषवत्त्वा-
दैक्ये तयोरन्यतरन्निरात्म ॥53॥
अमेयमश्लिष्टममेयमेव
भेदेऽपि तद᳭वृत्त्यपवृत्तिभावात् ।
वृत्तिश्च कृत्स्नांश विकल्पतो न
मानं च नाऽनन्तसमाश्रयस्य ॥54॥
नाना सदेकास्मसमाश्रयं चेद्-
ऽन्यत्वमद्विष्ठमनात्मनोः क्व ।
विकल्पशून्यत्वमवस्तुनश्चेत्
तस्मिन्नमेये क्व खलु प्रमाणम् ॥55॥
व्यावृत्तिहीनान्वयतो न सिद्ध᳭येद्,
विपर्ययेऽप्यद्वितयेऽपि साध्यम् ।
अतद᳭व्युदासाभिनिवेशवाद:,
पराभ्युपेतार्थविरोधवाद: ॥56॥
अनात्मनाऽनात्मगतेरयुक्ति-
र्वस्तुन्ययुक्तेर्यदि पक्षसिद्धि: ।
अवस्त्वयुक्ते: प्रतिपक्षसिद्धि:,
न च स्वयं साधनरिक्तसिद्धि: ॥57॥
निशायितस्तैः परशु: परघ्न:,
स्वमूर्ध्नि निर्भेदभयाऽनभिज्ञै: ।
वैतण्डिकैर्यै: कुसृति: प्रणीता,
मुने! भवच्छासनदृक᳭प्रमूढै: ॥58॥
भवत्यभावोपि च वस्तुधर्मो
भावांतरं भाववदर्हतस्ते ।
प्रमीयते च व्यपदिश्यते च
वस्तुव्यवस्थांगममेयमन्यत् ॥59॥
विशेषसामान्यविषक्तभेद-
विधिव्यवच्छेदविधायि वाक्यम् ।
अभेदबुद्धेरविशिष्टता स्याद᳭
व्यावृतिबुद्धेश्च विशिष्टता ते ॥60॥
सर्वान्तवत्तद᳭गुणमुख्यकल्पं
सर्वान्तशून्यं च मिथोऽनपेक्षम् ।
सर्वापदामन्तकरं निरन्तं
सर्वोदयं तीर्थमिदं तवैव ॥61॥
कामं द्विषन्नप्युपपत्तिचक्षु:
समीक्ष्यतां ते समदृष्टिरिष्टम् ।
त्वयि ध्रुवं खण्डित मानशृङ्गो,
भवत्यभद्रोपि समंतभद्रः ॥62॥
न रागान्न: स्तोत्रं भवति भवपाशच्छिदि मुनौ,
न चान्येषु द्वेषादपगुणकथाभ्यासखलता ।
किमु न्यायान्यायप्रकृतगुणदोषज्ञ मनसां
हितान्वेषोपायस्तव गुणकथासङ्गगदित: ॥63॥
इति स्तुत्य: स्तुत्यैस्त्रिदशमुनिमुख्यै: प्रणिहितैः,
स्तुत: शक्त्या श्रेय: पदमधिगतस्त्वं जिन ! मया ।
महावीरो वीरो दुरितपरसेनाऽभिविजये
विधेया मे भक्तिं पथि भवत एवाप्रतिनिधौ ॥64॥
पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर shastra/yuktyanushaasana.md सुधारें।