॥ श्री ॥
लघीयस्त्रय
धर्मतीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमो नम:
वृषभादिमहावीरान्तेभ्य: स्वात्मोपलब्धये ॥1॥
वृषभादिमहावीरान्तेभ्य: स्वात्मोपलब्धये ॥1॥
सन्तानेषु निरन्वयक्षणिकचित्तानामसत्स्वेव चे-
त्तत्त्वाहेतुफलात्मनां स्वपरसज्र्ल्पेन बुद्ध: स्वयम् ॥
सत्त्वार्थं व्यवतिष्ठते करुणया मिथ्याविकल्पात्मक: ।
स्यान्नित्यत्ववदेव तत्र समये नार्थक्रिया वस्तुन: ॥2॥
त्तत्त्वाहेतुफलात्मनां स्वपरसज्र्ल्पेन बुद्ध: स्वयम् ॥
सत्त्वार्थं व्यवतिष्ठते करुणया मिथ्याविकल्पात्मक: ।
स्यान्नित्यत्ववदेव तत्र समये नार्थक्रिया वस्तुन: ॥2॥
प्रत्यक्षं विशदं ज्ञानं। मुख्यसंव्यवहारत:॥
परोक्षं शेषविज्ञानं। प्रमाणे इति संग्रह:॥3॥
परोक्षं शेषविज्ञानं। प्रमाणे इति संग्रह:॥3॥
अनुमाद्यतिरेकेण विशेषप्रतिभासनम्।
तद्वैशद्यं मतं बुद्धेरवैशद्यमत: परम् ॥4॥
तद्वैशद्यं मतं बुद्धेरवैशद्यमत: परम् ॥4॥
अक्षार्थयोगे सत्तालोकोऽर्थाकारविकल्पधी:।
अवग्रहे विशेषाकांक्षेहाऽवायो विनिश्चय:॥5॥
धारणा स्मृतिहेतुस्तन्मतिज्ञानं चतुर्विधम्।
अवग्रहे विशेषाकांक्षेहाऽवायो विनिश्चय:॥5॥
धारणा स्मृतिहेतुस्तन्मतिज्ञानं चतुर्विधम्।
बह्वाद्यवग्रहाद्यष्टचत्वारिंशत्स्वसंविदाम्॥6॥
पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम्॥
पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम्॥
अथ द्वितीय परिच्छेद:
(प्रमाण विषय)
तद्द्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वत:॥7॥
(प्रमाण विषय)
तद्द्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वत:॥7॥
अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयो:।
क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता॥1॥
क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता॥1॥
नाभेदेऽपि विरुध्येत विक्रियाऽविक्रियैव वा॥
मिथ्येतरात्मकं दृश्यादृश्यभेदेतरात्मकं॥4॥
चित्तं सदसदात्मैकं तत्त्वं साधयति स्वत:॥
चित्तं सदसदात्मैकं तत्त्वं साधयति स्वत:॥
ज्ञानमाद्यं मतिस्संज्ञा चिंता चाभिनिबोधनं॥
प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात्॥1॥
प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात्॥1॥
अविकल्पधिया लिंगं न किन्चित्संप्रतीयते।
नानुमानादसिद्धत्वात् प्रमाणांतरमांजसं॥2॥
नानुमानादसिद्धत्वात् प्रमाणांतरमांजसं॥2॥
लिंगात्साध्याविनाभावाभिनिबोधैकलक्षणात्।
लिंगिधीरनुमानं तत्फलं हानादिबुद्धय:॥3॥
लिंगिधीरनुमानं तत्फलं हानादिबुद्धय:॥3॥
चंद्रादेर्जलचंद्रादिप्रतिपत्तिस्तथाऽनुमा॥4॥
भविष्यत्प्रतिपद्येत शकटं कृत्तिकोदयात्॥
श्व आदित्य उदेतेति ग्रहणं वा भविष्यति॥5॥
श्व आदित्य उदेतेति ग्रहणं वा भविष्यति॥5॥
अदृश्यपरचित्तादेरभावं लौकिका विदु:।
तदाकारविकारादेरन्यथानुपपत्तित:॥6॥
तदाकारविकारादेरन्यथानुपपत्तित:॥6॥
वीक्ष्याणुपारिमांडल्यक्षणभंगाद्यवीक्षणं॥
स्वसंविद्विषयाकारविवेकानुपलंभवत्॥7॥।
स्वसंविद्विषयाकारविवेकानुपलंभवत्॥7॥।
अनंशं बहिरंतश्च प्रत्यक्षं तदभासनात्।
कस्तत्स्वभावो हेतु: स्यात्किं तत्कार्यं यतोऽनुमा॥8॥
कस्तत्स्वभावो हेतु: स्यात्किं तत्कार्यं यतोऽनुमा॥8॥
धीर्विकल्पाविकल्पात्मा बहिरंतश्च किं पुन:॥
निश्चयात्मा स्वत: सिद्ध्यत्परतोऽप्यनवस्थिते:॥9॥
निश्चयात्मा स्वत: सिद्ध्यत्परतोऽप्यनवस्थिते:॥9॥
उपमानं प्रसिद्धार्थसाधम्र्यात्साध्यसाधनं॥
तद्वैधम्र्यात्प्रमाणं विंâ स्यात्संज्ञिप्रतिपादनं॥10॥
तद्वैधम्र्यात्प्रमाणं विंâ स्यात्संज्ञिप्रतिपादनं॥10॥
प्रत्यक्षार्थांतरापेक्षा संबंधप्रतिपद्यत:॥
तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा॥11॥
तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा॥11॥
इदमल्पं महद् दूरमासन्नं प्रांशु नेति वा॥
व्यपेक्षात: समक्षेऽर्थे विकल्प: साधनांतरं॥12॥
व्यपेक्षात: समक्षेऽर्थे विकल्प: साधनांतरं॥12॥
चतुर्थ परिच्छेद
(प्रमाणाभास)
प्रत्यक्षाभं कथंचित्स्यात्प्रमाणं तैमिरादिकं॥
यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं॥1॥
(प्रमाणाभास)
प्रत्यक्षाभं कथंचित्स्यात्प्रमाणं तैमिरादिकं॥
यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं॥1॥
स्वसंवेद्यं विकल्पानां विशदार्थावभासनं॥
संहृताशेषचिंतायां सविकल्पावभासनात्॥2॥
संहृताशेषचिंतायां सविकल्पावभासनात्॥2॥
प्रतिसंविदितोत्पत्तिव्यया: सत्योऽपि कल्पना:॥
प्रत्यक्षेषु न लक्षेरंस्तत्स्वलक्षणभेदवत्॥3॥
प्रत्यक्षेषु न लक्षेरंस्तत्स्वलक्षणभेदवत्॥3॥
अक्षधीस्मृतिसंज्ञाभिश्चिंतयाऽऽभिनिबोधिकै:॥
व्यवहाराविसंवादस्तदाभासस्ततोऽन्यथा॥4॥
व्यवहाराविसंवादस्तदाभासस्ततोऽन्यथा॥4॥
प्रमाणं श्रुतमर्थेषु सिद्धं द्वीपांतरादिषु॥
अनाश्वासं न कुर्वीरन् क्कचित्तद्व्यभिचारत:॥5॥
अनाश्वासं न कुर्वीरन् क्कचित्तद्व्यभिचारत:॥5॥
प्राय: श्रुतेर्विसंवादात्प्रतिबंधमपश्यतां।
सर्वत्र चेदनाश्वास: सोऽक्षलिंगधियां सम:॥6॥
सर्वत्र चेदनाश्वास: सोऽक्षलिंगधियां सम:॥6॥
आप्त्तोक्तेर्हेतुवादाच्च बहिरर्थाविनिश्चये॥
सत्येतरव्यवस्था का साधनेतरता कुत:॥7॥
सत्येतरव्यवस्था का साधनेतरता कुत:॥7॥
पुंसश्चित्राभिसंधेश्चेद्वागर्थव्यभिचारिणी॥
कार्यं दृष्टं विजातीयाच्छक्यं कारणभेदि किं॥8॥
कार्यं दृष्टं विजातीयाच्छक्यं कारणभेदि किं॥8॥
पंचम परिच्छेद
(नय एवं नयाभास)
नमो नमन्मरुन्मौलिमिलत्पदनखांशवे॥
स्वांतध्वांतप्रतिध्वंस प्रशंसाय जिनांशवे॥1॥
अथेदानीं प्रमाणं तदाभासं परीक्ष्य नयतदाभासलक्षणपरीक्षार्थमाह—
भेदाभेदात्मके ज्ञेये भेदाभेदाभिसंधय:॥
एतेऽपेक्षानपेक्षाभ्यां लक्ष्यंते नयदुर्नया:॥1॥

जीवाजीवप्रभेदा यदंतर्लीनास्तदस्ति सत्।
एकं यथा स्वनिर्भासि ज्ञानं जीव: स्वपर्ययैः॥2॥
एकं यथा स्वनिर्भासि ज्ञानं जीव: स्वपर्ययैः॥2॥
शुद्धं द्रव्यमभिप्रैति संग्र्रहस्तदभेदत:।
भेदानां नासदात्मैकोऽप्यस्ति भेदो विरोधत:॥3॥
भेदानां नासदात्मैकोऽप्यस्ति भेदो विरोधत:॥3॥
प्रत्यक्षं बहिरंतश्च भेदाज्ञानं सदात्मना॥
द्रव्यं स्वलक्षणं शंसेद्भेदात्सामान्यलक्षणात्॥4॥
द्रव्यं स्वलक्षणं शंसेद्भेदात्सामान्यलक्षणात्॥4॥
सदसत्स्वार्थनिर्भासै: सहक्रमविवर्तिभि:॥
दृश्यादृश्यैर्विभात्येकं भेदै: स्वयमभेदकैः॥5॥
दृश्यादृश्यैर्विभात्येकं भेदै: स्वयमभेदकैः॥5॥
कार्योत्पत्तिर्विरुद्धा चेत्स्वयंकारणसत्तया॥
युज्येत क्षणिकेऽर्थेऽर्थक्रियासंभवसाधनम्॥6॥
युज्येत क्षणिकेऽर्थेऽर्थक्रियासंभवसाधनम्॥6॥
यथैकं भिन्नदेशार्थान्कुर्याद् व्याप्नोति वा सकृत्॥
तथैकं भिन्नकालार्थान्कुर्याद् व्याप्नोति वा क्रमात्॥7॥
तथैकं भिन्नकालार्थान्कुर्याद् व्याप्नोति वा क्रमात्॥7॥
संग्रह: सर्वभेदैक्यमभिप्रैति सदात्मना॥
ब्रह्मावादस्तदाभास: स्वार्थभेदनिराकृते:॥8॥
ब्रह्मावादस्तदाभास: स्वार्थभेदनिराकृते:॥8॥
अन्योन्यगुण भूतैकभेदाभेदप्ररूपणात्॥
नैगमोऽर्थांतरत्वोक्तौ नैगमाभास इष्यते॥9॥
नैगमोऽर्थांतरत्वोक्तौ नैगमाभास इष्यते॥9॥
स्वतोऽर्था: संतु सत्तावत्सत्तया किं सदात्मनां॥
असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसंगत:॥10॥
असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसंगत:॥10॥
प्रामाण्यं व्यवहाराद्धि स न स्यात्तत्त्वतस्तयो:।
मिथ्यैकांते विशेषो वा क: स्वपक्षविपक्षयो:॥11॥
मिथ्यैकांते विशेषो वा क: स्वपक्षविपक्षयो:॥11॥
व्यवहारोऽविसंवादी नय: स्याद्दुर्नयोऽन्यथा।
बहिरर्थोऽस्ति विज्ञप्तिमात्रशून्यमितीदृश:॥12॥
बहिरर्थोऽस्ति विज्ञप्तिमात्रशून्यमितीदृश:॥12॥
ऋजुसूत्रस्य पर्याय: प्रधानं चित्रसंविद:॥
चेतनाणुसमूहत्वात्स्याद्भेदानुपलक्षणं॥13॥
चेतनाणुसमूहत्वात्स्याद्भेदानुपलक्षणं॥13॥
कालकारकलिंगानां भेदाच्छब्दार्थभेदकृत्॥
अभिरूढस्तु पर्यायैरित्थंभूत: क्रियाश्रय:॥14॥
अभिरूढस्तु पर्यायैरित्थंभूत: क्रियाश्रय:॥14॥
अक्षबुद्धिरतीतार्थं वेत्ति चेन्न कुत: स्मृति:॥
प्रतिभासभिदैकार्थे दूरासन्नाक्षबुद्धिवत्॥15॥
प्रतिभासभिदैकार्थे दूरासन्नाक्षबुद्धिवत्॥15॥
अक्षशब्दार्थविज्ञानमविसंवादत: समं।
अस्पष्टं शब्दविज्ञानं प्रमाणमनुमानवत्॥16॥
अस्पष्टं शब्दविज्ञानं प्रमाणमनुमानवत्॥16॥
कालादिलक्षणं न्यक्षेणान्यत्रेक्ष्यं परीक्षितं।
द्रव्यपर्यायसामान्यविशेषात्मार्थनिष्ठितम्॥17॥
द्रव्यपर्यायसामान्यविशेषात्मार्थनिष्ठितम्॥17॥
एकस्यानेकसामग्रीसन्निपातात्प्रतिक्षणं॥
षट्कारकी प्रकल्प्येत तथा कालादिभेदत:॥18॥
षट्कारकी प्रकल्प्येत तथा कालादिभेदत:॥18॥
व्याप्तिं साध्येन हेतो: स्फुटयति न विना चिंतयैकत्रदृष्टि:।
साकल्येनैष तर्कोऽनधिगतविषयस्तत्कृतार्थैकदेशे॥
प्रामाण्ये चानुमाया: स्मरणमधिगतार्थादि1संवादि सर्वं।
संज्ञानं च प्रमाणं समधिगतिरत: सप्तधाख्यैर्नयौघै:॥19॥
साकल्येनैष तर्कोऽनधिगतविषयस्तत्कृतार्थैकदेशे॥
प्रामाण्ये चानुमाया: स्मरणमधिगतार्थादि1संवादि सर्वं।
संज्ञानं च प्रमाणं समधिगतिरत: सप्तधाख्यैर्नयौघै:॥19॥
सर्वज्ञाय निरस्तबाधकधिये स्याद्वादिने ते नम-।
स्तात्प्रत्यक्षमलक्षयन् स्वमतमभ्यस्याप्यनेकांतभाक्॥
तत्त्वं शक्यपरीक्षणं सकलविन्नैकांतवादी तत:।
प्रेक्षावानकलंक याति शरणं त्वामेव वीरं जिनम्॥20॥
स्तात्प्रत्यक्षमलक्षयन् स्वमतमभ्यस्याप्यनेकांतभाक्॥
तत्त्वं शक्यपरीक्षणं सकलविन्नैकांतवादी तत:।
प्रेक्षावानकलंक याति शरणं त्वामेव वीरं जिनम्॥20॥
प्रणिपत्य महावीरं स्याद्वादेक्षणसप्तकं।
प्रमाणनयनिक्षेपानभिधास्ये यथागमं॥1॥
प्रमाणनयनिक्षेपानभिधास्ये यथागमं॥1॥
ज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते॥
नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रह:॥2॥
नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रह:॥2॥
अयमर्थ इति ज्ञानं विद्यान्नोत्पत्तिमर्थत:।
अन्यथा न विवाद: स्यात्कुलालादिघटादिवत्॥3॥
अन्यथा न विवाद: स्यात्कुलालादिघटादिवत्॥3॥
अन्वयव्यतिरेकाभ्यामर्थश्चेत्कारणं विद:।
संशयादिविदुत्पाद: कौतस्कुत इतीक्ष्यतां॥4॥
संशयादिविदुत्पाद: कौतस्कुत इतीक्ष्यतां॥4॥
सन्निधेरिंद्रियार्थानामन्वयव्यतिरेकयो:॥
कार्यकारणयोश्चापि बुद्धिरध्यवसायिनी॥5॥
कार्यकारणयोश्चापि बुद्धिरध्यवसायिनी॥5॥
तमो निरोधि वीक्षंते तमसा नावृतं परं॥
कुड्यादिकं न कुड्यादितिरोहितमिवेक्षका:॥6॥
कुड्यादिकं न कुड्यादितिरोहितमिवेक्षका:॥6॥
मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारत:॥
कर्मविद्धात्मविज्ञप्तिस्तथानेकप्रकारत:॥7॥
कर्मविद्धात्मविज्ञप्तिस्तथानेकप्रकारत:॥7॥
न तज्जन्म न ताद्रूप्यं न तद्व्यवसिति: सह॥
प्रत्येकं वा भजंतीह प्रामाण्यं प्रति हेतुतां॥8॥
प्रत्येकं वा भजंतीह प्रामाण्यं प्रति हेतुतां॥8॥
स्वहेतुजनितोऽप्यर्थ: परिच्छेद्य: स्वतो यथा॥
तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वत:॥9॥
तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वत:॥9॥
व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतं॥
ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमुश्नुते॥10॥
ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमुश्नुते॥10॥
तत्प्रत्यक्षं परोक्षं च द्विधैवात्रान्यसंविदां।
अंतर्भावान्न युज्यंते नियमा: परकल्पिता:॥11॥
अंतर्भावान्न युज्यंते नियमा: परकल्पिता:॥11॥
उपयोगौ श्रुतस्य द्वौ स्याद्वादनयसंज्ञितौ॥
स्याद्वाद: सकलादेशो नयो विकलसंकथा॥12॥
स्याद्वाद: सकलादेशो नयो विकलसंकथा॥12॥
अप्रयुक्तेऽपि सर्वत्र स्यात्कारोऽर्थात्प्रतीयते॥
विधौ निषेधेऽप्यन्यत्र कुशलश्चेत्प्रयोजक:॥13॥
विधौ निषेधेऽप्यन्यत्र कुशलश्चेत्प्रयोजक:॥13॥
वर्णा: पदानि वाक्यानि प्राहुरर्थानवांछितान्॥
वांछिताँश्च क्वचिन्नेत्ति प्रसिद्धिरियमीदृशी॥14॥
स्वेच्छया तामतिक्रम्य वदतामेव युज्यते॥
वक्त्रभिप्रेतमात्रस्य सूचकं वचनं न्विति॥15॥
वांछिताँश्च क्वचिन्नेत्ति प्रसिद्धिरियमीदृशी॥14॥
स्वेच्छया तामतिक्रम्य वदतामेव युज्यते॥
वक्त्रभिप्रेतमात्रस्य सूचकं वचनं न्विति॥15॥
श्रुतभेदा नया: सप्त नैगमादिप्रभेदत:॥
द्रव्यपर्यायमूलास्ते द्रव्यमेकान्वयानुगं॥16॥
निश्चयात्मकमन्योऽपि व्यतिरेकपृथक्त्वग:॥
निश्चयव्यवहारौ तु द्रव्यपर्यायमाश्रितौ॥17॥
द्रव्यपर्यायमूलास्ते द्रव्यमेकान्वयानुगं॥16॥
निश्चयात्मकमन्योऽपि व्यतिरेकपृथक्त्वग:॥
निश्चयव्यवहारौ तु द्रव्यपर्यायमाश्रितौ॥17॥
गुणप्रधानभावेन धर्मयोरेकधर्मिणि ॥
विवक्षा नैगमोऽत्यंतभेदोक्ति: स्यात्तदाकृति:॥18॥
विवक्षा नैगमोऽत्यंतभेदोक्ति: स्यात्तदाकृति:॥18॥
सदभेदात्समस्तैक्यसंग्रहात्संग्रहो नय:।
दुर्नयो ब्रह्मवाद: स्यात्तत्स्वरूपानवाप्तित:॥19।
दुर्नयो ब्रह्मवाद: स्यात्तत्स्वरूपानवाप्तित:॥19।
व्यवहारानुकूल्यात्तु प्रमाणानां प्रमाणता॥
नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसंगत:॥20॥
नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसंगत:॥20॥
भेदं प्राधान्यतोऽन्विच्छन् ऋजुसूत्रनयो मत:॥
सर्वथैकत्वविक्षेपी तदाभासस्त्वलौकिक:॥21॥
सर्वथैकत्वविक्षेपी तदाभासस्त्वलौकिक:॥21॥
चत्त्वारोऽर्थनया ह्येते जीवाद्यर्थव्यपाश्रयात्॥
त्रय: शब्दनया: सत्यपदविद्यां समाश्रिता:॥22॥
अकलंकप्रभाभारद्योतितं श्रुतमर्थत:॥
प्रमानयोपयोगात्म सौरी वृत्ति: प्रबोधयेत्॥1॥
त्रय: शब्दनया: सत्यपदविद्यां समाश्रिता:॥22॥
अकलंकप्रभाभारद्योतितं श्रुतमर्थत:॥
प्रमानयोपयोगात्म सौरी वृत्ति: प्रबोधयेत्॥1॥
श्रुतादर्थमनेकांतमधिगम्याभिसंधिभि:॥
परीक्ष्य ताँस्तान् तद्धर्माननेकान् व्यावहारिकान् ॥1।
नयानुगतनिक्षेपैरुपायैर्भेदवेदने ॥
विरचय्यार्थवाक्प्रत्ययात्मभेदान् श्रुतार्पितान्॥2॥
अनुयुज्यानुयोगैश्च निर्देशादिभिदागतै:॥
द्रव्याणि जीवादीन्यात्मा विवृद्धाभिनिवेशन:॥3॥
जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित्॥
तपोनिर्जीर्णकर्माऽयं विमुक्त: सुखमृच्छति॥4॥

भव्य: पंचगुरून् तपोभिरमलैराराध्य बुध्वाऽऽगमं।
तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छब्दादपभ्रंशत:॥
दूरीभूततरात्मकादधिगतो बोद्धाऽऽकलंकं पदं।
लोकालोककलावलोकनबलप्रज्ञो जिन: स्यात् स्वयं ॥5॥
तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छब्दादपभ्रंशत:॥
दूरीभूततरात्मकादधिगतो बोद्धाऽऽकलंकं पदं।
लोकालोककलावलोकनबलप्रज्ञो जिन: स्यात् स्वयं ॥5॥
प्रवचनपदान्यभ्यस्यार्थांस्तत: परिनिष्ठिता-।
नसकृदवबुद्ध्येद्धाद्बोधाद्बुधो हतसंशय:॥
भगवदकलंकानां स्थानं सुखेन समाश्रित:।
कथयतु शिवं पंथानं व: पदस्य महात्मनां॥6॥
नसकृदवबुद्ध्येद्धाद्बोधाद्बुधो हतसंशय:॥
भगवदकलंकानां स्थानं सुखेन समाश्रित:।
कथयतु शिवं पंथानं व: पदस्य महात्मनां॥6॥
नाभ्यासस्तादृगस्ति प्रवचनविषयो नैव बुद्धिश्च तादृक।
नोपाध्यायोऽपि शिक्षानियमनसमयस्तादृशोऽस्तीह काले॥
विंâत्वेतन्मे मुनींदुव्रतिपतिचरणाराधनोपात्तपुण्यं।
श्रीमद्भट्टाकलंकप्रकरणविवृतावस्ति सामथ्र्यहेतु:॥1॥
माऽयं मदांध इति चेतसि कोपमाधु-।
र्माधुर्यमेव वहते सुधियां मदुक्ति:॥
किं कामिनीजनमदोत्कटचाटुवाणी।
प्राणेश्वरस्य रसनाटकनर्तकी न॥2॥
तथाऽप्येतत्परीक्षंतां। मदुक्तम् मत्सरोज्झिता:॥
हीनाधिकमभिव्यक्तु। मेते हि निकषोपमा:॥3॥
विरुद्धं दर्शनं यस्य। निह्नवस्तस्य विंâकर:।
तेजोभिर्दुर्निरीक्ष्यं किं। घूकशूकोऽर्वâमृच्छति॥4॥
-अंतिम आशीर्वाद:-
भद्रमस्तु जिनशासनश्रिये। श्रायसैकपदकार्यजन्मने॥
जन्मजन्मकृततापलोपन-। प्रायशुद्धनिजतत्त्ववित्तये॥1॥

पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर
shastra/laghiyastraya.md सुधारें।
श्रुतधारा · लघीयस्त्रय — मूल पाठ · स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं