श्रुतधारा
॥ श्री ॥

इष्टोपदेश

आ. पूज्यपाद · संस्कृतम् · ५१ पद्य · ~८ मिनट

यस्य स्वयं स्वाभावाप्ति, रभावे कृत्स्नकर्मण:
तस्मै संज्ञान-रूपाय नमोऽस्तु परमात्मने ॥1॥
योग्योपादानयोगेन, दृषद: स्वर्णता मता
द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता ॥2॥
वरं व्रतै: पदं दैवं, नाव्रतैर्वत नारकम्
छायातपस्थयो र्भेद: प्रतिपालयतोर्महान् ॥3॥
यत्र भाव: शिवं दत्ते, द्यौ: कियद्दूरवर्तिनी
यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ॥4॥
हृषीकज -मनातङ्कं दीर्घ - कालोपलालितम्
नाके नाकौकसां सौख्यं, नाके नाकौकसामिव ॥5॥
वासनामात्रमेवैतत्सुखं दु:खं च देहिनाम्
तथा ह्युद्वेजयन्त्येते, भोगा रोगा इवापदि ॥6॥
मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि
मत्त: पुमान् पदार्थानां यथा मदन-कोद्रवै: ॥7॥
वपुर्गृहं धनं दारा:, पुत्रा मित्राणि शत्रव:
सर्वथान्यस्वभावानि, मूढ: स्वानि प्रपद्यते ॥8॥
दिग्देशेभ्य: खगा एत्य, संवसन्ति नगे नगे
स्वस्वकार्यवशाद्यान्ति, देशे दिक्षु प्रगे प्रगे ॥9॥
विराधक: कथं हन्त्रे जनाय परिकुप्यति
त्र्यड्.गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते ॥10॥
रागद्वेषद्वयीदीर्घ - नेत्राकर्षण- कर्मणा
अज्ञानात्सुचिरं जीव:, संसाराब्धौ भ्रमत्यसौ ॥11॥
विपद्भवपदावर्ते पदिकेवातिवाह्यते
यावत्तावद्भवन्त्यन्या: प्रचुरा विपद: पुर: ॥12॥
दुरर्ज्येनासुरक्षेणनश्वरेणधनादिना ।
स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ॥13॥
विपत्तिमात्मनो मूढ:, परेषामिव नेक्षते
दह्यमान-मृगाकीर्णवनान्तर - तरुस्थवत् ॥14॥
आयुर्वृद्धिक्षयोत्कर्ष-, हेतुं कालस्य निर्गमम्
वाञ्छतां धनिनामिष्टं, जीवितात्सुतरां धनम् ॥15॥
त्यागाय श्रेयसे वित्तमवित्त: सञ्चिनोति य:
स्वशरीरं स पङ्केन, स्नास्यामीति विलिम्पति ॥16॥
आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान्
अन्ते सुदुस्त्यजान् कामान् कामं क: सेवते सुधी: ॥17॥
भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि
स काय: सन्ततापायस्तदर्थं प्रार्थना वृथा ॥18॥
यज्जीवस्योपकाराय, तद्देहस्यापकारकम्
यद्देहस्योपकाराय, तज्जीवस्यापकारकम् ॥19॥
इतश्चिन्तामणिर्दिव्य इत: पिण्याकखण्डकम्
ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिन: ॥20॥
स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्यय:
अत्यन्तसौख्यवानात्मा, लोकालोकविलोकन: ॥21॥
संयम्य करणग्राममेकाग्रत्वेन चेतस:
आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ॥22॥
अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रय:
ददाति यत्तु यस्यास्ति, सुप्रसिद्धमिदं वच: ॥23॥
परीषहाद्यविज्ञानादास्रवस्य निरोधिनी
जायतेऽध्यात्मयोगेन, कर्मणामाशु निर्जरा ॥24॥
कटस्य कत्र्ताहमिति, सम्बन्ध: स्याद् द्वयोद्र्वयो:
ध्यानं ध्येयं यदात्मैव, सम्बन्ध: कीदृशस्तदा ॥25॥
बध्यते मुच्यते जीव:, सममो निर्मम: क्रमात्
तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ॥26॥
एकोऽहं निर्मम: शुद्धो, ज्ञानी योगीन्द्रगोचर:
बाह्या: संयोगजा भावा, मत्त: सर्वेऽपि सर्वथा ॥27॥
दु:खसंदोहभागित्वं, संयोगादिह देहिनाम्
त्यजाम्येनं तत: सर्वं, मनोवाक्कायकर्मभि: ॥28॥
न मे मृत्यु: कुतो भीतिर्न मे व्याधि: कुतो व्यथा
नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ॥29॥
भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गला:
उच्छिष्टेष्विव तेष्वद्य, मम विज्ञस्य का स्पृहा ॥30॥
कर्म कर्म हिताबन्धि, जीवो जीवहितस्पृह:
स्वस्वप्रभावभूयस्त्वे, स्वार्थं को वा न वाञ्छति ॥31॥
परोपकृतिमुत्सृज्य, स्वोपकारपरो भव
उपकुर्वन्परस्याज्ञो, दृश्यमानस्य लोकवत् ॥32॥
गुरूपदेशादभ्यासात्संवित्ते: स्वपरान्तरम्
जानाति य: स जानाति, मोक्षसौख्यं निरन्तरम् ॥33॥
स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वत:
स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन: ॥34॥
नाज्ञो विज्ञत्वमायाति, विज्ञो नाज्ञत्वमृच्छति
निमित्तमात्र-मन्यस्तु, गतेर्धर्मास्तिकायवत् ॥35॥
अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थित:
अभ्यस्येदभियोगेन, योगी तत्त्वं निजात्मन: ॥36॥
यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम्
तथा तथा न रोचन्ते, विषया: सुलभा अपि ॥37॥
यथा यथा न रोचन्ते, विषया: सुलभा अपि
तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम् ॥38॥
निशामयति निश्शेषमिन्द्रजालोपमं जगत्
स्पृहयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते ॥39॥
इच्छत्येकान्तसंवासं निर्जनं जनितादर:
निज कार्यवशात्किञ्चिदुक्त्वा विस्मरति द्रुतम् ॥40॥
ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति
स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति ॥41॥
किमिदं कीदृशं कस्य, कस्मात्क्वेत्यविशेषयन्
स्वदेहमपि नावैति योगी योगपरायण: ॥42॥
यो यत्र निवसन्नास्ते, स तत्र कुरुते रतिम्
यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥43॥
अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते
अज्ञाततद्विशेषस्तु, बध्यते न विमुच्यते ॥44॥
पर: परस्ततो दु:खमात्मैवात्मा तत: सुखम्
अत एव महात्मानस्तन्निमित्तं कृतोद्यमा: ॥45॥
अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत्
न जातु जन्तो: सामीप्यं,चतुर्गतिषु मुञ्चति ॥46॥
आत्मानुष्ठाननिष्ठस्य, व्यवहारबहि: स्थिते:
जायते परमानन्द: कश्चिद्योगेन योगिन: ॥47॥
आनन्दो निर्दहत्युद्धं कर्मेन्धनमनारतम्
न चासौ खिद्यते योगी, बहिर्दु:खेष्वचेतन: ॥48॥
अविद्याभिदुरं ज्योति:, परं ज्ञानमयं महत्
तत्प्रष्टव्यं तदेष्टव्यं, तद्द्रष्टव्यं मुमुक्षुभि: ॥49॥
जीवोऽन्य: पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रह:
यदन्यदुच्यते किञ्चित्सोऽस्तु तस्यैव विस्तर: ॥50॥
इष्टोपदेशमिति सम्यगधीत्य धीमान्,
मानापमानसमतां स्वमताद्वितन्य ॥
मुक्ताग्रहो विनिवसन् सजने वने वा,
मुक्तिश्रियं निरुपमामुपयाति भव्य: ॥51॥
पाठ-स्रोत: मूल गाथाएँ जैन गाथा डेटाबेस (टंकण-श्रेय: Nikky Jain, nikkyjain.github.io) से — केवल प्राचीन मूल पाठ लिया गया है; अनुवाद/अन्वयार्थ सम्मिलित नहीं · मूल पाठ प्राचीन एवं public domain; टंकण-श्रेय यथोक्त · मूल e-text ↗
यह मूल पाठ है — अर्थ/टीका सम्मिलित नहीं। अशुद्धि दिखे तो GitHub पर shastra/ishtopadesha.md सुधारें।